________________
२०४
अधर्मिदुष्टलोकेभ्यो, रक्ष रक्ष जिनेश्वर ! | धर्म्ययुद्धे जयं देहि, त्वद्भक्तानामहर्निशम् ॥ ॐ क्राँ कीँ पूर्णदेवेश ! पारतन्त्र्यं विनाशय । सर्वजातिभयस्थाने, रक्षां मे कुरु सर्वथा ॥ धर्मिलोकस्य रक्षार्थ, दुष्टान् शासय शासय । देशसंघप्रजादीनां रक्षां कुरुष्व ॐ नमः ॥ ॐ हूँ झीँ श्री महावीर ! सर्वेषां धर्मिदेहिनाम् । शान्तिं तुष्टिं तथा पुष्टिं ऋद्धिं कीर्ति कुरु स्वयम् ॥ विद्यां लक्ष्मी तथा सत्तां, शक्ति देहि स्वभावतः । ॐ स्वाहा क्लीँ महावीर ! सर्वेष्टं मे समर्पय ॥ यादृग्भावो भवेद्यस्य तादृग्रूपेण तद्धदि । मंत्रशक्तिप्रयोक्ता त्वं, महावीर ! नमोऽस्तु ते ॥ .. मदि सर्वतो व्याप्य, स्वशुद्धात्मन्स्ववीर्यतः । द्रव्यभावारिहन्ता त्वं दुष्टशत्रून्पराजय ॥ ॐ हंसः स्राँ महावीर ! त्वत्प्रभावाऽतिरेकतः । सर्पाणां वृविकानाञ्च विषं नश्यतु तत्क्षणम् ॥ महावीर महाविष्णो ! फट् फट् फट् विच्चि ॐ नमः । इष्टसिद्धिं कुरु स्वाहा, सर्वत्र मेऽतिरागिणः ॥ सर्वदेवाधिदेवत्वं सर्वजैनान्प्रवर्द्धय ।
9
हूँ द्रो महावीर ! दुष्टान्द्रावय द्रावय ॥ सर्वोन्नतिं कुरु त्वं वर्द्धय मे परम्पराम् । पापाचारविचारेभ्यो, रक्ष रक्ष महाबल ! ॥ स्वप्ने मे दर्शनं दत्त्वा स्वेष्टं भाषय भाषय । प्रत्यक्षं दर्शनं देहि, महावीर कृपानिधे ॥
Jain Education International
[ मन्त्रयोगः
For Private & Personal Use Only
२३
२४
२५
२६
२७
२८
२९
३०
३१
३२
३३
३४
www.jainelibrary.org