________________
मन्त्रयोगः ] 'परब्रह्ममहावीर ! त्वत्पदं देहि भावतः।
आत्मनः परमात्मत्वं, कुरुष्व प्रार्थनेति मे ॥ कार्येषु कर्मयोगित्वं, देहि मे ज्ञानपूर्वकम् । घातय दुर्गुणान्सर्वान्सदगुणान्देहि मढदि ॥ महारामेश्वरव्यक्तपूर्णतां प्रकटीकुरु । नामरूपादिकं मोहं, दूरीकुरु स्वभक्तितः ॥ आधिं व्याधि तथोपाधि, सर्वदुःखं विनाशय । शुद्धात्मपूर्णमानन्द, कुरु व्यक्तं स्वयंप्रभो ! ॥ यस्याज्ञा त्रिजगदव्याप्ता, महावीरमहाप्रभोः । तदाज्ञासु प्रतापेन, शान्तिर्भवतु मे सदा ॥ अनन्ताऽनन्तशक्त्या यः, सर्वविश्वप्रकाशकः । परब्रह्ममहावीर, आत्मशुद्धिं करोतु सः॥ पूर्णाऽनन्तमहावीर ! सद्बुद्धिं मे प्रकाशय । आविर्भावेण पूर्णत्वं, मत्तोऽभिन्नः स्वयं भव ॥ ॐ अहँ श्रीमहावीर ! पूर्णशक्तिविकासक!। श्रीचतुर्विधसंघस्य, कुरु शान्ति दयानिधे ! ॥ राज्यशान्ति प्रजाशान्ति, देशशान्ति तथा कुरु । स्वकुटुम्बपशूत्रक्ष, रक्ष सर्वविपत्तितः॥ ॐ नमस्ते महावीर ! विश्वशान्ति सदा कुरु । क्षुद्रोपद्रवतो रक्ष, सर्वलोकान्प्ररक्षक ! ॥ लोकाँश्च दुष्टदेवेभ्यो, रक्ष रक्ष सुखप्रद !। महावीरप्रभो ! रक्ष, दुष्कालादिभयात्सदा ॥ धर्मप्रतापतो लोकरक्षार्थ सद्दयानिधे !। कुरुष्व मेघवृष्टिं त्वं, योग्यकालेसु धान्यदाम् ॥
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org