________________
मन्त्रयोगः
शक्तियोगं महायोगं, समाकर्ण्य महामतिः । प्रणम्य श्रीमहावीरं सुधर्मोवाच भक्तितः ॥
?
चिन्तामणिसमा लोके, चिन्तितार्थप्रदायकाः । त्वया सम्यक्तया प्रोक्ताः सर्वयोगाः श्रुता मया ॥ त्वदीयमन्त्रयोगस्तु सम्यगाराधितो नृणाम् । सद्यः फलप्रदातास्ति, तस्मात्तं वच्मि भक्तितः ॥ ॐ ह्रीं श्रीं क्लीं महावीर ! सर्वदुष्टान्विनाशय । ज्वरस्फोटक रोगाणां, मूलं नाशय नाशय || वर्द्धमान महावीर ! मद्वदि त्वं सदा वस । शाकिनीभूत वैतालान्, शीघ्रं नाशय नाशय ॥ मम हृदि स्थितां दुष्टबुद्धिं शीघ्रं विनाशय । आत्मज्ञानमहालाभं, शीघ्रं देहि हृदि स्थितः ॥ त्वत्प्रभावान्महामारी, शीघ्रं नश्यतु नश्यतु । अकाले नैव मे मृत्युरुपसर्गान् हर द्रुतम् ॥
3
सर्वदेवाधिदेव ! त्वं मद्वृदि वस भास्कर ! | जयश्च विजयं देहि, शुभेष्टं देहि वेगतः ॥
ॐ औँ क्लीँ लूँ महावीर ! शान्तिं तुष्टिं कुरु प्रभो ! | सर्वशक्तींश्च मे देहि, दोषान् घातय घातय ॥
ॐ श्रीं ऐं मन्त्रराजस्त्वं, पूर्णलक्ष्मीकरो भव । पुत्रं देहि च मे पुत्र, राज्यादिसर्वसंपदः ॥
Jain Education International
For Private & Personal Use Only
१०
www.jainelibrary.org