________________
योगोपसंहारयोगः ]
२०१ मत्तः सार्द्धद्विसहस्रहायनेषु गतेषु तु । जैनधर्मादयो भावी, सर्वविश्वप्रकाशकः ॥ सर्ववर्णस्थिता लोका, जैनधर्माऽभिलाषिणः । भविष्यन्त्यखिले विश्वे, बहवो जैनधर्मिणः ॥ १२० चतुर्विधमहासंघसाम्राज्यवृद्धये सदा । सर्वस्वाऽर्पणयोगेन, वर्तितव्यं महाजनैः ॥ १२१ सर्वस्वार्पणकर्तृणां, जैनानां विविधोन्नतिः। भूता भवति संपूर्णा, भाविनी च कलौ युगे ॥ चतुर्विधमहासंघरूपश्रीजैनशासनम् । जीयात्सर्वत्र माङ्गल्यकारकं धर्मधारकम् ॥ यावद पीठचन्द्रास्तिावच्छ्रीजैनशासनम् । मदुद्धृतं सदा जीयात् , सर्वमङ्गलकारकम् ॥ १२४ ब्रायां लिप्यां महावीरगीता पूर्वर्षिभिः शुभा। लिखिता कालदोषेण, यशोभद्रेण मृरिणा ॥ १२५ लिप्यां श्रीदेवनागर्या, लिखिता सैव भक्तितः। गोपिता ज्ञानकोषे च, तत्प्राकटयं मया कृतम् ॥ १२६ मत्पश्चाद्धर्मवृद्धयर्थ, भाविसूरिमहर्षिभिः । लिपीष्वन्यासु भाषासु, लेख्या भाष्या च रागतः ॥ १२७
इति श्रीमहावीरगीतायां श्रीसर्वयोगोपसंहार
नामकः षोडशोऽध्यायः समाप्तः
૧૫
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org