________________
-
२००
[ षोडशाध्याये सर्वशक्तिप्रदा गीता, सर्वमङ्गलदायिनी। यत्र गीता प्रपठयेत, तत्र नो पापसंगतिः ॥ १०७ गीतायोगप्रभावेण. प्राप्नुवन्ति नरादयः। पुत्रपुत्रीमहालक्ष्मीनिंत्रादिस्वजनांस्तथा ॥ . . १०८ मनोऽभीष्टानि लभ्यन्ते, तथा सर्वमहोन्नतिः। . कलौ मत्सदृशी गीता, सुखदा सर्वदेहिनाम् ॥ - १०९. युगप्रधानसूर्याद्याः, साव्यश्च मदुपासकाः। ब्राह्मणाः क्षत्रिया वैश्याः, शूद्राः स्युः शक्तिशालिनः॥ ११० सुखसंपत्तिसंभारो, यथोक्तमार्गगामिनाम् । मङ्गलानि जयादीनि, लक्ष्मीलीला च शाश्वती॥ १११ सर्वदेवास्तथा देव्यो, मत्सेवादिप्रभावतः। पूर्णानन्दपरब्रह्म, याता यास्यन्ति यान्ति च ॥ - १ मां विनेतरदेवाद्या, देव्यश्च जगति स्थिताः। मुक्त्यादिफलदानेषु, समर्था नेति जानताम् ॥ ११३. मां परब्रह्म विज्ञाय, स्वात्मानं सत्तया च ये । ब्रह्मत्वं सर्वजीवानां, द्रष्टारो मुक्तिगामिनः ॥ मम जन्मक्षेसंक्रान्ते, भस्मग्रहे विनिर्गते। प्रभावका भविष्यन्ति, सर्वत्र जैनधर्मिणः ॥ दक्षिणे चोत्तरे भागे, भारतीये नरोत्तमाः। युगप्रधानाः प्रकटीभविष्यन्ति प्रभावकाः ॥ भव्यदेवास्तथा देव्यः, प्रत्यक्षीभूय रागतः। सहायकारका धर्मे, भविष्यन्ति न संशयः॥ अवधिज्ञानिनो जैना, जातिस्मरणवेदिनः। युगप्रधानाः सूरीन्द्रा, भविष्यन्ति महाजनाः ॥. ... ११८.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org