SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ योगोपसंहारयोग: ] निगमागमशास्त्रेषु, मद्गीतां पञ्चमारके । मुख्यभावेन संमान्य, वर्त्तितव्यं यथा तथा ॥ गणयिष्यन्ति मगीतां, प्रेम्णाऽभ्यस्यन्ति ये नराः । मनोऽभीष्टमास्यन्ति, सुयोगं शुभशर्म च ॥ श्रद्धया भक्तिदानेन, गीतां शण्वन्ति ये जनाः । वाचयन्ति च मद्वाम प्राप्नुवन्ति गुणालयम् ॥ " 9 मगीतां मत्समां मत्वा, पूजयिष्यति यो नरः । बर्त्तिष्यते च तद्रीत्या, मदभिन्नो भविष्यति ॥ यः पठेत्पाठयेदन्यं शृणोति श्रावयत्यथ । विस्तारयति मद्गीतां, सत्यभक्तः स चोत्तमः ॥ रागादयः प्रलीयन्ते, दुर्बुद्धिश्च विनश्यति । तस्य मच्छक्तिरूपां यो, गीतां मन्येत तास्विकीम ॥ घोरपातककर्त्ता यः, पापिनामग्रणीस्तथा । गीताभ्यासरतः सोऽपि, मुक्तिमाप्नोति वेगतः ॥ मत्पूजाज्ञेोपदेशेषु सर्वेषामर्हतां यके । आज्ञापूजोपदेशास्ते, लीयन्ते भूतभाविनाम् ॥ गीता पाठकसद्भक्तौ, मद्भक्तिर्लीयते सदा । इत्थं विज्ञाय मद्भक्ता, वर्त्तन्ते हितसाधकाः ॥ मगीताद्वेषिणो लोका, दुर्गतिद्वारगामिनः । मिथ्यात्वनास्तिका लोका, मज्जन्ति भववारिधौ ॥ गीतां प्रवाच्य मक्ता, भक्षयन्ति निशम्य च । दिवसे मज्जपासक्ता, दानं दत्त्वा च भुञ्जते ॥ गीतायाः पठनेनैव, सर्वधर्मः प्रकाशते । क्षीयन्ते घोर पापानि, वाचन श्रवणादिभिः ॥ Jain Education International For Private & Personal Use Only १९९ ९५ ९७ ९८ १०० १०१ १०२ १०३ १०४ १०५ १०६ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy