Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 256
________________ २१६ [ गौतमस्तुतिः पूर्ण ब्रह्म सदा जानन् , पूर्णब्रह्म भवेजनः । नाऽनुभवेदपूर्णस्तु, पूर्णभावस्य सारताम् ॥ अपूर्णस्तव भक्त्यैव, पूर्णब्रह्म पदं व्रजेत् । त्वद्भक्तिनद्धयोर्लीना, मुक्ति यान्ति न संशयः ॥ २४ गृहिणां यतिनां भेदास्त्वद्भक्ती मान्ति सर्वथा । रूपाऽरूपिमहाब्रह्मापूर्णत्वेन न गृह्यसे । पूर्णस्त्वं गृह्यसे ज्ञानादाण्या पूर्णों न कथ्यसे । त्वद्भक्तेषु न विद्यन्ते, देहादिमोहवृत्तयः॥ त्वद्भक्ताः सर्वजातीयाः सर्वस्वाऽर्पणकारकाः। ज्ञातिवंशादिभेदानां, गर्व कुर्वन्ति नो कदा ।। त्वन्नाम्ना प्राप्यते सर्वमीप्सितं मनुजैः सदा। त्वदृतेऽन्यदभिप्रेतं, मन्येऽहं निष्फलं भुवि ॥ -- प्रतिकायस्थिताऽऽत्मानो, भवन्त्याविर्गुणान्विताः। ज्ञातव्यास्ते महावीरास्तत्त्वरूपाः सनातनाः॥ सर्वे जीवा महावीराः, सत्तया सर्वदा मताः । महावीरस्य भक्त्यैव, महावीरा भवन्ति ते ॥ सर्वजीवास्तिरोभावादव्यक्ता वीररूपिणः । आविर्भावेण ते जीवा, जायन्ते वीररूपिणः ॥ वचांसि तव सत्यानि, ततः सर्वत्र मीयते । नमस्यामि विदित्वा त्वां, मद्धदि त्वं सनातनः ॥ ३२ एक एव महावीरो, जगद्देवो निरञ्जनः । ज्ञानभक्तिबलेनैव, जायन्ते त्वत्समा जनाः ॥ ३३ सुराऽसुरेन्द्रसंपूज्य ! जिष्णो ! विष्णो ! महाप्रभो । महावीर ! वृदि त्वं मे, व्यक्तो भव स्वशक्तितः॥ ३४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308