________________
२१६
[ गौतमस्तुतिः पूर्ण ब्रह्म सदा जानन् , पूर्णब्रह्म भवेजनः । नाऽनुभवेदपूर्णस्तु, पूर्णभावस्य सारताम् ॥ अपूर्णस्तव भक्त्यैव, पूर्णब्रह्म पदं व्रजेत् । त्वद्भक्तिनद्धयोर्लीना, मुक्ति यान्ति न संशयः ॥ २४ गृहिणां यतिनां भेदास्त्वद्भक्ती मान्ति सर्वथा । रूपाऽरूपिमहाब्रह्मापूर्णत्वेन न गृह्यसे । पूर्णस्त्वं गृह्यसे ज्ञानादाण्या पूर्णों न कथ्यसे । त्वद्भक्तेषु न विद्यन्ते, देहादिमोहवृत्तयः॥ त्वद्भक्ताः सर्वजातीयाः सर्वस्वाऽर्पणकारकाः। ज्ञातिवंशादिभेदानां, गर्व कुर्वन्ति नो कदा ।। त्वन्नाम्ना प्राप्यते सर्वमीप्सितं मनुजैः सदा। त्वदृतेऽन्यदभिप्रेतं, मन्येऽहं निष्फलं भुवि ॥ -- प्रतिकायस्थिताऽऽत्मानो, भवन्त्याविर्गुणान्विताः। ज्ञातव्यास्ते महावीरास्तत्त्वरूपाः सनातनाः॥ सर्वे जीवा महावीराः, सत्तया सर्वदा मताः । महावीरस्य भक्त्यैव, महावीरा भवन्ति ते ॥ सर्वजीवास्तिरोभावादव्यक्ता वीररूपिणः । आविर्भावेण ते जीवा, जायन्ते वीररूपिणः ॥ वचांसि तव सत्यानि, ततः सर्वत्र मीयते । नमस्यामि विदित्वा त्वां, मद्धदि त्वं सनातनः ॥ ३२ एक एव महावीरो, जगद्देवो निरञ्जनः । ज्ञानभक्तिबलेनैव, जायन्ते त्वत्समा जनाः ॥ ३३ सुराऽसुरेन्द्रसंपूज्य ! जिष्णो ! विष्णो ! महाप्रभो । महावीर ! वृदि त्वं मे, व्यक्तो भव स्वशक्तितः॥ ३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org