________________
गौतमस्तुतिः ] स्वच्छ्रद्धाभक्तियोगेन, संजातं मे स्थिरं मनः। विश्वोद्धाराय ते जन्म, जयोऽस्ति तव नामतः ॥ अज्ञानतमसो नाशं, कृत्वा ज्ञानप्रकाशताम् । कुरुष्व सर्वलोकानां, सर्वदुःखनिवृत्तये ॥ अस्माकं सर्वलोकानां, देवेश! भक्तिभावतः । परिहत्य तमोऽज्ञानं, ज्ञानचक्षुः प्रदेहि नः॥ त्वदीयाः स्म वयं सर्वे, सर्वविश्वविवर्तिनः । रक्षाऽस्मान्सर्वदुःखेभ्यः, सत्पथञ्च नय प्रभो!॥ त्वन्नाम्ना क्षीयते पापं, मनोऽभीष्टफलं भवेत् । त्वदुताः सत्यवेदास्त्वद्वचासु सदा स्थिताः॥ नानार्थत्वछचोरक्ता, ब्रजन्ति त्वत्पदं नराः। मन्मूर्ध्नि हस्तसंस्पर्शात्तारितोऽहं त्वया प्रभो !॥ निजयोगाऽधिकारेण, दृष्टो देवः स्वयं प्रभुः। धन्योऽहं जन्मना जातस्त्वत्सेवामधिजग्मिवान् ॥ १७ त्रिलोक्यां जयताद्वीर ! सर्वाधार ! महाप्रभो!। सत्यस्तवोपदेशोऽस्ति, विश्वोन्नतिविधायकः ॥ महिमा तव सर्वस्मादधिको भुवनत्रये । त्वदाज्ञावर्तिभक्तानां, ध्रुवं मुक्तिपदं सदा ॥ अनन्तज्ञानपाथोधेः, पारं तेनैव याम्यहम्। ' वाचः पारं न ते यान्ति, कथं स्तोतुमहं प्रभुः ॥ २० वेदागमाः स्तुवन्ति त्वां, तव पारं व्रजन्ति नो । वैखर्या किं स्तुवे सर्व, जानासि त्वं दयानिधे ॥ २१ वर्द्धमानजगत्स्वामिन्नपारास्तव शक्तयः। निजमत्यनुसारेण, विजानन्ति नरा स्त्रियः॥ २२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org