________________
४
गौतमस्तुतिः केवलज्ञानगम्भीरः, सर्वातिशयभूषितः । शासनाधिपतिर्विश्वोद्धारकः सुरसेवितः ।। महिम्नः स्तवनात् स्तुत्य, आधारः सर्वदेहिनाम् ।। रम्योपदेशदायी त्वं, सर्वशक्तिधरो भवान् ॥ जगदगुरुमहाजन्मा, त्वच्छिक्षा कार्यसिद्धिदा। त्वत्तुल्यो नास्ति मे स्वामी, जगदीशमहामणिः ॥ अनन्तास्त्वद्गुणाः सन्ति, त्वदन्यो नैव तारकः । धर्मोद्धारविधाता त्वं, साकारो लोकनायकः ॥ शक्तीनामीशिता स्वामी, व्याप्यव्यापकवान्विभुः। योग्याऽयोग्यानि कर्माणि, सत्यधर्माः प्रदर्शिताः॥ सर्वलोकपते ! ब्रह्मन् ! वीर ! सर्वजगन्मणे ! । त्वदुपदेशतो लोका, भवन्ति भवपारगाः ॥ निरञ्जनो निराकारो, नित्योऽजो जगदाश्रयः । सर्वत्र तव नामानि, स्मरतां कार्यसिद्धयः ॥ ज्ञाने भक्तो कर्मयोग, उपास्तौ रक्तचेतसाम् । आत्मपरात्मनोरक्याजन्मदुःखं न विद्यते ॥ कालस्वभावनियतिप्रमुखाः पञ्चहेतवः । त्वत्सेवाभक्तिसंलीना, नानातकैश्च किं फलम् ॥ त्वद्वाणी वेदरूपाऽस्ति, तदन्यत्खेदकारकम् । त्वदीयभक्तविज्ञानं, नास्तिका नैव जानते ॥
५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org