________________
गौतमस्तुतिः ]
सर्वाधार ! महावीर ! स्वत्स्वरूपमयैर्जनैः । प्राप्यसे त्वं परब्रह्म ! रूपातीत ! शिवङ्कर ! ॥ आर्यावर्त्तापकारार्थमवतारो जिनेश । ते । सर्वज्ञ ! सर्वदेवेश ! नमस्तेऽस्तु बृहस्पते ! ॥ भवद्दासानुदासाः स्मः, सुरेन्द्रसेवितप्रभो ! | नामस्त्वां महादेव ! यज्ञहिंसानिवर्त्तक ! ॥ सर्वमङ्गलदाता त्वं, विश्वोद्धारक ! योगिराट्र ! | नमामः पूर्णरागेण, विश्वभास्करभास्कर ! ॥
व्यासादीनां महर्षीणां, ज्ञानदात्रे नमोऽस्तु ते । मायादेवीसुतो बुद्धस्त्वां स्तौति पूज्यभावतः ॥ प्रान्ते त्वां स्तौति गोशालस्तथा सांख्याऽनुयायिनः । आर्यदेशीयलोकानां, जातस्त्वं भगवान् महान् ॥ तथाsनार्थप्रदेशेषु जातास्त्वत्पाद सेवकाः । स्वमेव शरणं मेऽस्तु सर्वज्ञ ! पुरुषोत्तम ! ॥
Jain Education International
For Private & Personal Use Only
२१७
३५.
३६
३७
३८.
४०
४१
www.jainelibrary.org