________________
श्रेणिकादिस्तुतिः श्रेणिकोदायिनी चण्डप्रद्योतनश्च चेटकः । प्रणम्य श्री महावीरं, स्तुवन्त्येवं विवेकतः॥ धर्मोद्धारक ! देवेश ! महावीर ! महाप्रभो। सर्ववीरेषु वीरस्त्वं, सर्वयोगप्रदर्शक ! ।। क्षात्रवंशशिरोरत्नं, पूर्णब्रह्म गुरुः प्रभुः । सर्वज्ञायकतीर्थेशो, भवत्सेवा सदाऽस्तु नः ॥ सर्ववर्णाधिकारेण, जिनधर्मस्त्वयोदितः। प्रोक्तानि स्वाऽधिकारेण, कर्माणि सर्वदेहिनाम् ॥ ४ । कलौ स्वच्छासनं सर्वविश्वाऽऽधारतया स्थितम् । त्वदाज्ञायां स्थितो धर्मः, श्रद्धया सुखकारकः ॥ ५ आत्मनि सर्वधर्माणामभेदोऽस्ति स्वभावतः। शुभाऽऽसक्त्यादिना लोके, शर्मदानि वचांसि ते ॥ ६ क्षात्रधर्मस्य ये योगा, दर्शिता हितकारकाः। तद्योगधर्मभ्रष्टास्तु, दुःखिताः स्युनराः स्त्रियः॥ त्वन्नाम्ना सर्वपापानि, पलायन्ते च दुर्मतिः । सर्वकार्याणि सिद्धयन्ति, त्वन्नामस्मृतिमात्रतः ॥ ॐ अर्हन् त्वं महावीर ! आधारः सर्वदेहिनाम् । पालको देवदेवीनां, शुद्धात्मैव हृदि स्थितः ॥ परब्रह्म परः पूर्णो, योगेशोऽहन् सदाशिवः । क्षात्रधर्म परिज्ञाप्य, नाशिताः क्लेशराशयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org