Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
योगोपसंहारयोग: ]
निगमागमशास्त्रेषु, मद्गीतां पञ्चमारके । मुख्यभावेन संमान्य, वर्त्तितव्यं यथा तथा ॥ गणयिष्यन्ति मगीतां, प्रेम्णाऽभ्यस्यन्ति ये नराः । मनोऽभीष्टमास्यन्ति, सुयोगं शुभशर्म च ॥ श्रद्धया भक्तिदानेन, गीतां शण्वन्ति ये जनाः । वाचयन्ति च मद्वाम प्राप्नुवन्ति गुणालयम् ॥
"
9
मगीतां मत्समां मत्वा, पूजयिष्यति यो नरः । बर्त्तिष्यते च तद्रीत्या, मदभिन्नो भविष्यति ॥ यः पठेत्पाठयेदन्यं शृणोति श्रावयत्यथ । विस्तारयति मद्गीतां, सत्यभक्तः स चोत्तमः ॥ रागादयः प्रलीयन्ते, दुर्बुद्धिश्च विनश्यति । तस्य मच्छक्तिरूपां यो, गीतां मन्येत तास्विकीम ॥ घोरपातककर्त्ता यः, पापिनामग्रणीस्तथा । गीताभ्यासरतः सोऽपि, मुक्तिमाप्नोति वेगतः ॥ मत्पूजाज्ञेोपदेशेषु सर्वेषामर्हतां यके । आज्ञापूजोपदेशास्ते, लीयन्ते भूतभाविनाम् ॥ गीता पाठकसद्भक्तौ, मद्भक्तिर्लीयते सदा । इत्थं विज्ञाय मद्भक्ता, वर्त्तन्ते हितसाधकाः ॥ मगीताद्वेषिणो लोका, दुर्गतिद्वारगामिनः । मिथ्यात्वनास्तिका लोका, मज्जन्ति भववारिधौ ॥ गीतां प्रवाच्य मक्ता, भक्षयन्ति निशम्य च । दिवसे मज्जपासक्ता, दानं दत्त्वा च भुञ्जते ॥ गीतायाः पठनेनैव, सर्वधर्मः प्रकाशते । क्षीयन्ते घोर पापानि, वाचन श्रवणादिभिः ॥
Jain Education International
For Private & Personal Use Only
१९९
९५
९७
९८
१००
१०१
१०२
१०३
१०४
१०५
१०६
www.jainelibrary.org
Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308