Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
View full book text
________________
१९८
"
उद्भावयन्तु धर्मस्य, शौर्य जैनाः सदा हृदि । मदुक्त योगसामर्थ्यान्मङ्गलं वः पदे पदे ॥ अहं देवो महासंघो, जैनधर्मः सनातनः । एतत्त्रिमूर्त्तिकं पूर्ण, कुर्याद्रो मङ्गलं सदा ॥ दर्शनज्ञानचारित्रत्रिमूर्त्तिरात्मरूपिणी । व्यक्तभावेन संजीयात्सर्वजीवेषु जीविनी । श्रवणं वाचनं कार्य, मङ्गीताया विशेषतः । त्यागिसूर्यादिपार्श्वे च गृहत्थगुरुसन्निधौ ॥ आहत सर्ववेदानां वेदान्तानां विशेषतः । स्वाध्यायश्रवणं कार्य, प्रत्यहं भव्यदेहिभिः ॥ धर्माचार्यगुरोः पार्श्वे, मदाज्ञैवं विशेषतः । कर्त्तव्या शास्त्र संरक्षा, सर्वोपायैर्मदाश्रितैः ॥ मदन्तेवासिभिः सर्वैर्गणेशैज्ञानमूर्त्तिभिः । सन्निबद्धागमादीनां श्रद्धा कार्या मनीषिभिः ॥ नीतयः स्मृतयो भव्या, गोतमश्रेणिकादिभिः । निबद्धा जैनराष्ट्रादिसाम्राज्यस्थापकाः शुभाः ॥ तच्छ्रद्धाव्यवहारेण कर्त्तव्यं वर्त्तनं शुभम् । सर्वैः साम्राज्यरक्षार्थ, सर्वत्र मज्जनैः सदा ॥ श्रीनेमिपार्श्वयोः काले, विद्यमानागमादयः । अस्तित्वमधुना तेषां मान्यास्ते मज्जनैः सदा ॥ जैनधर्माविरोधेन, मत्पश्चाद्वर्त्तिसाधुभिः । ये ये ग्रन्थाः करिष्यन्ते, माननीया विवेकतः ॥ भाविषु धर्मशास्त्रेषु, परस्पराऽविरोधतः । 'बर्त्तितव्यं सदा जैनैः, स्वीकृत्य तत्त्वसारताम् ॥
"
Jain Education International
[ षोडशाध्याये
For Private & Personal Use Only
८३
८४
८५
८६
८७
८८
८९
९१
९२
९३
www.jainelibrary.org
Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308