Book Title: Jain Mahavira Gita
Author(s): Buddhisagar
Publisher: Shrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad

View full book text
Previous | Next

Page 236
________________ १९६ अहमित्यादि भाषा तु, भाषिता व्यवहारतः । वीतरागोऽपि लोकानामुपकृत्यै वदाम्यहम् ॥ -विश्ववर्त्तिमनुष्याणामुद्धारार्थ वदाम्यहम् । मत्तद्वेदो मदुक्तो यो, विवेकार्थे स देहिनाम् ॥ मयोक्तं तत्र मोहस्तु, नास्तिकानां भवेद्दृथा । आस्तिका नैव मुह्यन्ति, मदुक्तिषु विवेकिनः ॥ - व्यवहारो न मोक्तव्यः, सूरिवाचकसाधुभिः । गृहस्थैस्तु विशेषेण, जैनधर्मस्य पालकैः ॥ जैनधर्मस्य साम्राज्यं व्यवहारेण रक्ष्यते । व्यवहारस्य नाशेन, तीर्थनाशो भवेत्खलु ॥ चतुर्विधमहासंघो, व्यवहारनयं विना । जीवति नैव कुत्रापि, जैना एवं विजानताम् ॥ ज्ञानिनोऽपि महासन्तः, पूज्यन्ते व्यवहारतः । उपदेशप्रवृत्तिस्तु, माताऽस्ति निश्चयस्य सा ॥ वंशपरम्पराधमे, व्यवहारात्प्रवर्त्तते । व्यवहारं विना ज्ञानं, शुष्कं धर्मविनाशकम् ॥ धार्मिकव्यवहाराणां शुभाचारप्रवर्त्तनम् । स्वाऽधिकारेण संसेव्यं ज्ञानिभिर्गृहिसाधुभिः ॥ जैनाचाराः सदा सेव्या, जैनधर्मप्रवर्त्तकाः । -पूजादानत्रतादीनां, सेवनं कर्मनाशकम् ॥ आत्मज्ञानिमहासन्तः श्रुतचारित्रसाधकाः । वर्त्तन्ते व्यवहारेण, विश्वोपकारहेतवे ॥ सर्वज्ञेन मया विश्व हितार्थं त्रिकयोगतः । धर्मरूपव्यवहारः क्रियते स्वाऽधिकारतः ॥ " Jain Education International " " [ षोडशाध्याये For Private & Personal Use Only ५९ ६० ६१ ६२ ६३ ६४ ६५ ६६ ६७ ६८ ६९ ७० www.jainelibrary.org

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308