________________
१९६
अहमित्यादि भाषा तु, भाषिता व्यवहारतः । वीतरागोऽपि लोकानामुपकृत्यै वदाम्यहम् ॥ -विश्ववर्त्तिमनुष्याणामुद्धारार्थ वदाम्यहम् । मत्तद्वेदो मदुक्तो यो, विवेकार्थे स देहिनाम् ॥ मयोक्तं तत्र मोहस्तु, नास्तिकानां भवेद्दृथा । आस्तिका नैव मुह्यन्ति, मदुक्तिषु विवेकिनः ॥ - व्यवहारो न मोक्तव्यः, सूरिवाचकसाधुभिः । गृहस्थैस्तु विशेषेण, जैनधर्मस्य पालकैः ॥ जैनधर्मस्य साम्राज्यं व्यवहारेण रक्ष्यते । व्यवहारस्य नाशेन, तीर्थनाशो भवेत्खलु ॥ चतुर्विधमहासंघो, व्यवहारनयं विना । जीवति नैव कुत्रापि, जैना एवं विजानताम् ॥ ज्ञानिनोऽपि महासन्तः, पूज्यन्ते व्यवहारतः । उपदेशप्रवृत्तिस्तु, माताऽस्ति निश्चयस्य सा ॥ वंशपरम्पराधमे, व्यवहारात्प्रवर्त्तते । व्यवहारं विना ज्ञानं, शुष्कं धर्मविनाशकम् ॥ धार्मिकव्यवहाराणां शुभाचारप्रवर्त्तनम् । स्वाऽधिकारेण संसेव्यं ज्ञानिभिर्गृहिसाधुभिः ॥ जैनाचाराः सदा सेव्या, जैनधर्मप्रवर्त्तकाः । -पूजादानत्रतादीनां, सेवनं कर्मनाशकम् ॥ आत्मज्ञानिमहासन्तः श्रुतचारित्रसाधकाः । वर्त्तन्ते व्यवहारेण, विश्वोपकारहेतवे ॥ सर्वज्ञेन मया विश्व हितार्थं त्रिकयोगतः । धर्मरूपव्यवहारः क्रियते स्वाऽधिकारतः ॥
"
Jain Education International
"
"
[ षोडशाध्याये
For Private & Personal Use Only
५९
६०
६१
६२
६३
६४
६५
६६
६७
६८
६९
७०
www.jainelibrary.org