________________
योगोपसंहारयोगः ]
चतुर्विधमहासंघा, भक्तिरागेण जागृत । सर्वत्र सर्वलोकानामुन्नतिं कुरुत द्रुतम् ॥ सर्वयोगेश्वरं पूर्ण, मां विज्ञायाशु जागृत । आत्मनि सर्वयोगाः स्युर्विज्ञायोत्तिष्ठत द्रुतम् ॥ प्राकट्य मात्मशक्तीनां भव्याः कुरुत वेगतः । आत्मध्यानप्रभावेण, गुप्तज्ञानं प्रकाशते ॥ प्रकाशितादपि ज्ञानादनन्तज्ञानगुप्तता । तत्प्रकाशो भवेद्वयानात्ततो वाणी निवर्त्तते ॥ आत्मज्ञानप्रकाशार्थ, शीघ्रं जागृत जागृत । आत्मध्यानसमाध्यर्थ, प्रेम्णोत्तिष्टत मज्जनाः ॥ रक्षणं सर्वतीर्थानां कुरुध्वं स्वात्मभोगतः । जैनराज्यादिसाम्राज्यं, रक्षत मज्जना भुवि ॥ युष्माकमैक्यरक्षार्थ, ध्यानं मे कुरुत द्रुतम् । क्षुद्रभेदान् परित्यज्य मां सर्वेषु निभालत ॥ हठ लयं तथा मन्त्रं, राजयोगं च शक्तितः । सेवध्वं सर्वयोगेन प्राप्योऽहं परमेश्वरः ॥ नाऽहं वदामि रागेण, नाऽहं द्वेषादिना तथा । सत्त्वरजस्तमोमुक्त वीतरागो जिनेश्वरः ॥ वीतरागो महावीरः, केवलज्ञानदर्शनी । लोकानामुपकारार्थे, सर्वयोगानुपादिशम् ॥ नाऽहं वदामि मोहेन, पूर्णमोहविनाशकृत् । यथा सर्वोन्नतिर्नृणां स्यात्तथा वच्मि युक्तितः ॥ लोकानामुपकारः स्याद्यथा योगास्तथा मया । व्यवहारविवेकेन, भाषिता मुक्तिसाधकाः ॥
Jain Education International
J
For Private & Personal Use Only
१९५
४७
४८
४९.
५०
५१.
५२
५३
५४
५५.
५६.
५७
५८
www.jainelibrary.org