________________
[ षोडशाच्या गृहस्थास्त्यागिनो लोका, धर्मार्थ जागृत स्वयम् । प्रेम्णोत्थाय मदाज्ञातो, वर्तध्वं योगकर्मसु ॥ चतुर्विधमहासंघा, मत्पश्चात्सर्वशक्तितः। जागृत धर्मकर्माणि, कुरुत स्वाऽधिकारतः ॥ आत्मनः पूर्णसहोघं, कृत्वोत्तिष्टत वेगतः। परस्परं नतिं कृत्वा, वर्तध्वमेकरूपतः ॥ गृहागतमनुष्याणामनाथाशक्तदहिनाम् । निराधारादिलोकानामन्नायं दत्त मानवाः॥ साधर्मिकमनुष्याणां, भक्तिसन्मानतः सदा । अन्नवित्तादिभिः सेवा, कार्या च ब्रह्मदानतः॥ जैनराजादिसम्मानः, कर्तव्यो मज्जनैः सदा । मद्वज्जैनमहीनाथैः, कार्य संघस्य रक्षणम् ॥ - रक्षणं ब्राह्मणादीनां, सदा कार्य परस्परम् । धर्म्ययुद्धप्रसङ्गेषु, कार्य जैनैर्विशेषतः॥ अन्नवित्तादिभि नै ना रक्ष्याः परस्परम् । मच्छासनस्थजैनानां, मदाज्ञैवं शिवप्रदा ॥ देशकालाऽनुसारेण, जैनानामुन्नतिर्यतः। तत्तत्कर्माणि सेव्यानि, धर्म एष सनातनः ॥ अन्नवित्तादिदानं तु, जैनेभ्यो धर्मवृद्धये । जिनोऽहं सर्वजनेषु, विश्वरूपेण संस्थितः ॥ यूयं संमील्य भुञ्जीध्वं, कृत्वैक्यं धर्मकर्मसु । सर्ववर्णीयजैनानामैक्यमस्तु भुवस्तले ॥ सर्वेण चैक्यरूपेण, साई संमील्य रागतः। जीवाम इति विज्ञाय, जैना मां प्रतिपद्यतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org