________________
योगोपसंहारयोगः ] विधर्मिसर्वलोकानां, स्पर्धायां मजनैः सदा । देशकालाऽनुयोगेन, स्थातव्यं शक्तियुक्तिभिः ॥ इत्याज्ञा सर्वदा मेऽस्ति, भाविजैनोन्नतिप्रदा । सांप्रतं सर्वसंघेन, वर्तितव्यं प्रयत्नतः॥ उक्तयोगान्समालम्ब्य, जैना यान्ति महोन्नतिम् । मदाज्ञावत्तिनां नृणां, विनिपातो न जायते ॥ परस्परविरोधेऽपि, जैनैर्मद्रागिभिः सदा । परस्परसहायार्थ, प्राणा देयाः प्रयत्नतः ॥ परस्परविरोधानां, कृत्वा नाशं मनीषिभिः। कलौ विधर्मिणामग्रे, स्थेयं सत्तादिशक्तिभिः॥ देशकालाऽनुसारेण, शक्तिवर्धककर्मभिः । स्थातव्यं मां समासाद्य, सर्वदेशस्थमजनैः ।।.. स्थातव्यं सर्वदेशेषु, जीविकादिप्रसाधनैः। . अन्नादिसर्वसामग्री, प्राप्या सर्वप्रयत्नतः ॥ सर्वविद्याकलोपेतं, संघोन्नतिप्रसाधकम् । गृहस्थं प्रमुखं कृत्वा, क्षात्रादिशक्तिधारिणम् ॥ गृहस्थजैनसंघेन, देशकालाऽनुसारतः । जैनधर्मस्य साम्राज्य, रक्षितव्यं मदाज्ञया । गृहस्थत्यागिजैनानां, महासंघेन रागतः। मत्पट्टे त्यागिसूरीशः, स्थाप्यो मान्यश्च मत्समः ॥ जैनधर्मस्थसाम्राज्यविवृद्धयर्थं तदाज्ञया । वर्तितव्यं मदावं, सर्वसंघेषु सर्वदा ॥ चतुर्विधमहासंघप्रमुखैहिसाधुभिः। .. जैनसंघप्रगत्यर्थ, वर्तितव्यं स्वशक्तिभिः॥
ND
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org