SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९२ " दर्शनज्ञानचारित्रयोगेषु शुद्धभावतः । लयो भवति सर्वेषां सद्योगानामपेक्षया ॥ स्वाऽधिकारेण संप्राप्तयोगस्य साधनं शुभम् । संप्राप्तयोगसंत्यागादधर्मो जायते नृणाम् ॥ परित्यज्य प्रमादान्भो, भव्या जागृत जागृत । सर्वकर्त्तव्यकार्यार्थ प्रेम्णोत्तिष्ठत मज्जनाः ॥ सर्वकर्त्तव्ययोगेषु, लोका जागृत वेगतः । जैनधर्मप्रचारार्थ, कुरुध्वं स्वापणं मुदा ॥ बलावेगेन जैनानां, वृद्धयर्थं जागृत स्वयम् | लक्ष्म्यादीनां बलस्यैक्यं कृत्वोत्तिष्ठत सर्वतः ॥ सर्व जैनबलस्यैक्यं कृत्वोत्तिष्ठत रागतः । जैनविद्यालयादीनां स्थापनं कुरुत स्वयम् ॥ जैनानां शक्तिवृद्ध्यर्थ, दानं विद्यादिकर्मसु । कर्त्तव्यं पूर्णरागेण, तत्रोत्तिष्ठत जागृत ॥ जैना जागृत मद्रागाज्जैनधर्मस्य वृद्धये । देहमोहं परित्यज्य, कर्माणि कुरुत द्रुतम् ॥ आत्मनः परमात्मत्वं, व्यक्तं कुरुत वो " द्रुतम् । मनोवाक्काययोगानां साधनैरप्रमादतः ॥ सतताभ्यासयोगेन, कार्यसिद्धिः प्रजायते । देहाध्यासं परित्यज्य, प्रेम्णोत्तिष्ठत मानवाः ॥ मदुक्तसर्वयोगानां शङ्काः सन्त्यज्य मानवाः । पूर्णश्रद्धां समालम्ब्य कुरुध्वं वर्त्तनं जनाः ॥ सर्वशक्ति वरान्प्राप्य, सर्वलोकान्प्रबोधत । सर्वविश्वोन्नतिः सत्या, मर्मज्ञानतो भवेत् ॥ Jain Education International , [ षोडशाध्याये For Private & Personal Use Only ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१. २२ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy