________________
षोडशाध्याये योगोपसंहारयोगः
आत्मोन्नतिकरा योगाः, शुद्धात्मसिद्धिसाधकाः । योगानालम्ब्य भो भव्याः, संप्राप्नुत शिवश्रियम् ॥ आत्मा क्षायिकभावेन प्राप्नोति परमात्मताम् । उपादाननिमित्तैर्योगास्ते भणितास्ततः ॥ उपादानस्य शुद्धयर्थं, निमित्तेष्वस्ति योगता । असंख्यातेषु योगेषु, महायोगाः प्रकीर्त्तिताः ॥ तत्राऽपि दर्शनज्ञानचारित्राणि विशेषतः । मुक्तेः संयोजनाद्योगा, मयोच्यन्ते जगत्त्रये ॥ आत्मनः परमात्मत्वं, सत्तातोऽनादिकालतः । प्राकटयं तस्य यैर्भूयात्, ततो योगाः प्रकीर्तिताः ॥ चित्तं शुद्धात्मनि व्यक्तं युज्यते येन हेतुना । योगो मयोच्यते तेन, केवलज्ञानदर्शिना ॥ रागद्वेषात्मचित्तस्य, पूर्णनाशो भवेद्यतः । स योगो भण्यते शुद्धः सर्वकर्मविनाशकृत् ॥ मनोवाक्काय सामर्धकारको योग उच्यते । व्यवहारविवेकेन, ज्ञातव्यं सर्वमानवैः ॥ निश्चयव्यवहाराभ्यां योगा बहुविधाः शुभाः । स्वाधिकारेण संसेव्या, विश्वस्थसर्वमानवैः ॥ योगाः कदापि नो त्याज्या, निश्चयव्यवहारिणः । व्यवहारेण संप्राप्तिर्निश्वयस्य भवेद्यतः ॥
Jain Education International
For Private & Personal Use Only
३.
፡
१०
www.jainelibrary.org