SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ योगोपसंहारयोगः ] यदाचरति तीर्थेशस्तदन्ये धार्मिका जनाः । आचरन्ति सदाचार, धर्मप्रवाह हेतवे ॥ " जैनधर्मसमुद्धारः सर्वयोगैः कृतो मया । विश्वोद्धाराय मद्भक्तैवैर्त्तितव्यं तथा सदा ॥ संसारिणां प्रबोधार्थमनेकनयगर्भिता । मदुक्तिस्तत्र शङ्का तु कर्त्तव्या नैव मोहतः ॥ सर्वज्ञेन मयोक्तं यत्तत्सर्वं श्रद्धया जनाः । स्वीकृत्य स्वाऽधिकारेण कुरुध्वं स्वात्मशुद्धताम् ॥ पक्षपातो न मे किञ्चिद्धर्मस्य व्यवहारतः । धर्मिणां मोक्षदाताऽहैं, महावीरो निमित्ततः ॥ स्वस्वकर्माऽनुसारेण, पुण्यपापानुसारतः । सुखदुःखानि भुञ्जन्ति, धर्मिणश्च विधर्मिणः ॥ तत्र निमित्तभूतोऽहं धर्माऽधर्मप्रदर्शनात् । ततः कर्त्रादिरूपेण, गीयतेऽहं जनैः सदा ॥ मोहादिकर्मणां नाशो, योगाभ्यासेन जायते । पापनाशो भवेच्छीघ्रं तथैव पुण्यबन्धनम् ॥ योगानां साधने भव्या, भवन्तु तत्पराः सदा । तत्राऽधिकारिणः सर्वे, सर्वविश्वस्थमानवाः ॥ मिथ्यात्वस्य जयाज्जैनाः, सर्वयोगाऽधिकारिणः । मत्कृपापात्र जैनानां, योगाऽवाप्तिर्युतं भवेत् ॥ जैना जागृत भो भव्या, मयि विश्वासधारिणः । शीघ्रमुत्तिष्ठत क्षेमं कर्तुमुत्साहसंयुताः ॥ यावन्मयुक्तबोधानामावेगः शौर्य भाग हृदि । तिष्ठेद्रागेण युष्माकं तावशुष्मत्समुन्नतिः ॥ Jain Education International For Private & Personal Use Only १९७* ७१ ७२ ७३ ७४ ७५ ७६ ७७ ७८. ७९ ८० ८१. ८२.. www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy