________________
१८४
अन्तरात्मा स्वभावेन, सामीप्यं परमात्मनः । प्रपद्यते तदा मुक्तिः, सामीप्या गीयते मया ॥ शुद्धात्मभाव संप्राप्तावपि देहादियोगतः । प्रारब्धकर्म भोक्तृणां जीवन्मुक्तिः प्रचक्ष्यते ॥ समनस्काऽवगन्तव्या, मुक्तिर्मनः प्रवर्त्तिनाम् । निर्मनस्काsaगन्तच्या, मुक्तिर्मनोविनाशिनाम् ॥ मनोवाक्काययोगानां योगाच्छुद्धात्मरूपिणाम् । घातिकर्मक्षयोत्था सा, सयोगा मुक्तिरुच्यते ॥ मनोवाक्काययोगानां विनाशात्केवलात्मिका । कृत्स्नकर्मक्षयोत्था सा, निर्योगा मुक्तिरुच्यते ॥ श्रेष्ठाऽस्त्यपुनरावृत्त्या, निर्योगा सर्वमुक्तिषु । यत्र गत्वा परात्मानो, निवर्त्तन्ते न कर्हिचित् ॥ कृत्स्नकर्मक्षयो मोक्ष, एवंभूतनयोक्तितः । सर्वनयोक्तमोक्षेषु, तस्य प्राधान्यमिष्यते || पूर्णशुद्धात्ममोक्षे तु, नयाः सन्ति न वस्तुतः । पूर्णशुद्धात्मसद्रूपं, वैखर्या नैव वर्धते ॥
"
मोक्ष सौख्यं सदेहेन, शुद्धात्मनाऽनुभूयते । आत्मन्येवाऽस्ति मोक्षोऽयं, तस्मान्नान्यत्र विद्यते ॥ २७१ सिद्धात्मनां परं स्थानं, मोक्ष एव निगद्यते । प्रतिष्ठितं तल्लोकाग्रे, यत्राऽऽनन्त्यं परात्मनाम् ॥ शुद्धरूपं न मुञ्चन्ति वैकुण्ठाः परमेश्वराः । अनन्तज्ञानरूपेण, वैकुण्ठस्थानमाश्रिताः | शुद्धसंग्रह सत्तातः, सर्वसिद्धात्मनां स्वयम् । परमात्मा महानेक, उच्यते पूर्णतामयः ॥
Jain Education International
[ पञ्चदशाध्याये
For Private & Personal Use Only
२६३
२६४*
२६५
२६६
२६७
२६८
२६९.
२७०
२७२.
२७३
२७४ -
www.jainelibrary.org