________________
२७
पना
शानयोगा] आत्मैव शुद्धसिद्धात्मा, सत्तातः सर्वदेहिनाम्। मोक्षरूपं निजात्मानं, ध्यायन्ति ज्ञानयोगिनः॥ प्राणवायुं समाकृष्य, भ्रुवोर्मध्ये स्ववीर्यतः। मृत्युकाले वपुस्त्यक्त्वा, योगी मुक्तिं व्रजेत्स्वयम् ॥ २७६ यदा तदा ब्रजेत्प्राणो, देहस्थः सर्वरन्ध्रतः । तथाऽपि मोहनिर्मुक्तो, ज्ञानी याति ध्रुवं पदम्॥ २७७ यादक्तादृगवस्थास्थो, मनोवाकायचेष्टितैः । मृत्युकालं शिवंगामी, भवेत्स ज्ञानतो ध्रुवम् ॥ २७८. चित्तस्य विकलाऽवस्था, मृत्युकालेऽपि योगिनः । बाधार्थ जायते नैव, शुद्धात्मज्ञानहेतुतः ॥ दृष्ट्वा बाह्यान्तरं पूर्ण, शुद्धात्मानं विवेकतः । यदा तदा ब्रजेन्मोक्षं, योगी ज्ञानसमाहितः ॥ २८० चित्तग्रन्धि समुच्छेद्य, योगी ज्ञागासिना रयात् । बहिरन्तः समत्वेन, मुक्तिं याति न संशयः ॥ २८१ रागद्वेषात्मसंकल्पविकल्पानां विनाशतः। मुक्तात्मा जायते पूर्णज्ञानानन्दोदधिर्विभुः ॥ २८२ आत्मनः शुद्धपर्यायो, मोक्ष एव न संशयः । शुद्धात्मैव महामोक्षः, पूर्णात्पूर्णप्रकाशकः ॥ २८३ संपूर्णः केवलज्ञानी, बहिरन्तः परात्परः । अनन्तानन्तरूपात्मा, शुद्धबुद्धयाऽनुभूयते ॥ २८४ मनो वेत्ति न यब्रह्म तवेत्ति तत्क्षणं मनः । जागत्ति यन्मनोनाशे, परब्रह्म स्वयं सदा ॥ पञ्चभूतमयो देह, आत्मानं नैव वेत्ति यः। तं वेत्ति पूर्णरूपेण, चिदानन्दः सचेतनः ॥
२८५
।
tos
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org