________________
[ पञ्चदशाध्याचे जीवाऽजीवं जगत्ति, केवलज्ञानचक्षुषा। आत्मा स सर्वविश्वेशो, देहस्थोऽपि न देहवान् ॥ २८७ आत्मानं वेत्ति यो योगी, वीतरागः समाहितः । निष्क्रियः सर्वथा मुक्त, आत्मशुद्धोपयोगतः ॥ २८८ जायते म्रियते नैव, हन्यमानो न हन्यते। आत्मा नित्यः स विज्ञेयः, शुद्धनिश्चयदृष्टितः ॥ २८९ जातं मृतश्च यो वेत्ति, लघु स्थूलश्च चेतनम् । अज्ञानी स निजात्मानं, नैव वेत्ति स्वभावतः॥ देहस्थोऽपि न यो देही, चित्तभिन्नोऽस्ति वस्तुतः। आत्मा द्रव्यस्वरूपेण, नित्योऽजः शाश्वतो महान् ॥ २९१ सर्वसारमयं सत्यं, शुद्धब्रह्म हृदि स्थितम् । जानाति स महायोगी, जागर्ति निर्भयोऽचलः ॥ .. २९२ जगत्प्रेयो यदस्तित्वे, प्रियः स सर्वशक्तिमान् । पारो न गम्यते यस्य, बुद्धीनां सर्ववृत्तिभिः ॥ २९३ आत्मा स परिबोद्धव्यः, शुद्धबुद्धया मनीषिभिः। यस्य प्राप्तौ भवेत्प्राप्तिः, सर्वप्राप्तव्यवस्तुनः॥ दूरादूरतरो योऽपि, पार्धात्पार्श्वतरःस्थितः । शरीरेष्वशरीरः स, स्थिरोऽस्थिरेषु यः स्वयम् ॥ २९५ यस्मिल्लब्धेऽखिलं लब्धं, सर्वकामसमाप्तिता। जायतेऽध्यात्मयोगेशो, मुह्यति नैव वस्तुषु ॥ २९६ शुभाऽशुभपदार्थेषु, कल्पितेषु न मुह्यति । आत्मज्ञानी मनो जित्वा, वीतरागो भवेत्क्षमी ॥
२९७ श्रेयः प्रेयान्स्वयं स्वात्मा, न च भूतानि वस्तुतः। एवं ज्ञात्वा स्वयं धीरा, मुह्यन्ति क्षणिकेषु न ॥ २९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org