________________
मानयोगः न
___ १८० शुद्धात्मनि यदा रागस्तदा बाह्यविरागता। चैमुख्यं काम्यभावनामात्मनि जायते क्रमात् ॥ क्षेत्रस्य क्षेत्रिणो ज्ञान, विज्ञानश्चोभयोः सदा । ऐक्यं जानाति योगी स, पूर्णानन्दी भवेत्स्वयम् ॥ ३०० क्षेत्रिरूपा गुणाः सर्वे, पर्यायाश्च स्वभावतः। आत्मा क्षेत्रं तयोरक्यं, जानात्येव स्वयं प्रभुः ॥ ३०१ क्षेत्रिक्षेत्रस्वरूपं यज्ज्ञानमद्वैतरूपकम् । परब्रह्मपदं पूर्ण, ददात्येव न संशयः ॥
३०२ मन्त्रतन्त्रचमत्कारा, विश्वजीवेषु वर्तिनः । आत्मोत्थिताः स्वभावेन, नाऽन्यत्किश्चिद्विभावय ॥ ३०३ आत्मोत्थिताश्चमत्कारा, आत्माऽस्ति शक्तिसागरः । ध्यानशक्तिप्रभावेण, यः सर्व कर्तुमीश्वरः ॥ ३०४ आत्मचेतनजीवाद्या, ब्रह्मशब्दस्य पर्ययाः। अन्येऽपि भावसाम्येन, ब्रह्मवाच्यार्थसंगताः॥ ३०५ मत्पदं सिद्धमुक्ताहन्मत्स्वरूपादिवाचकाः। शुद्धबुद्धादिपर्यायाः, परब्रह्मनिवेदकाः ॥ स्वाभाविकनरो देवो, नारी देवी च शाश्वती। शुद्धपर्यायरूपेण, प्राकट्यमात्मनि द्वयोः॥ चतुर्दशात्मके लोके, सर्वे भावा यथास्थिताः। तथा मानवपिण्डेऽपि, ज्ञेया अध्यात्मरूपतः ॥ ३०८ निश्चयव्यवहाराभ्यां, क्षेत्रक्षेत्रिस्वरूपताम् । जानाति स भवेज्ज्ञानी, मृत्यु तीत्वा शिवं ब्रजेत् ॥ ३०९ नयसापेक्षबोधेन, सम्यग्ज्ञानं भजेजनः । आत्मपरात्मनोरक्य, कृत्वा ब्रजति सिद्धताम् ॥ . ३१०
स्थताः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org