SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १८८ दर्शनज्ञानचारित्राऽभ्यासोऽनेकभवार्जितः । तत्संस्कारैश्च शुद्धात्मा, याति सिद्धिं परं पदम् ॥ सर्वनामस्वरूपोऽहं सर्वकर्मादिकारकः । औपचारिकरूपोऽहं, तथा शुद्धस्वभाववान् ॥ बाह्यतो बाह्यरूपोऽहमान्तर आत्मरूपतः । शुद्धनिश्वयतो लक्ष्यो, बाह्यतो नैव लक्ष्यवान् ॥ उद्भवन्ति नयाः सर्वे, मत्तो यान्ति लयं मयि । मीयमानो नयैः सर्वैर्मत्तो भिन्ना नयास्तथा ॥ दृश्यादृश्यस्वरूपोsहं, सर्वशास्त्रप्रकाशकः । सर्वधर्मस्वरूपोऽहं सर्वधर्मिस्वरूपवान् ॥ सर्वपूज्यैरहं पूज्यः, सर्वपूजकपूजकः । द्वैताऽद्वैतस्वरूपोऽहं सर्वदर्शनरूपवान् ॥ , सर्वचेतन रूपोऽहं संग्रहनयसत्तया । भिन्नोऽहं व्यवहारेण, जीवेभ्यो व्यक्तिभेदतः ॥ ܪ Jain Education International [ पञ्चदशाध्याये नयानां दृष्टिभिर्दृष्टा, दृश्यरूपो ह्यपेक्षया । नयानां दृष्टिवादानां स्रष्टाऽहं स्वस्वभावतः ॥ सर्वजातिविचारास्ते, नया एव मनीषिणाम् । शुभा एव नया बोध्या, अशुभाश्च विवेकतः ॥ शुभाशुभा नयाः सर्वे, सर्वजीवोद्भवाः खलु । सूक्ष्मसृष्टिस्वरूपास्ते, विज्ञेया नयकोविदैः ॥ " असंख्याता अनन्ताश्च, नया अध्यवसायतः । आत्मनि येन संज्ञाता अनुभूताः स केवली ॥ नयानां सर्वसापेक्षज्ञानाऽनुभवयोगतः । अज्ञानस्य भवेन्नाश, आत्मज्ञानं प्रकाशते ॥ For Private & Personal Use Only ३११ ३१२. ३१३ ३१४ ३१५ ३१६ ३१७ ३१८ ३१९. ३२० ३२१ ३२२. www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy