________________
-
३२४
३२५
झानयोगः] नयसापेक्षबोधेन मिथ्यावुद्धिविनश्यति । । नैगमादिनयैः सम्यग्भावज्ञानं प्रकाशते ॥ .. सर्वधर्मादिशास्त्राणां, नयदृष्टिविचारणात् । नयसापेक्षसत्येन, सम्यग्ज्ञानं प्रकाशते ॥ उद्भवन्ति नयाः सर्वे, चेतने ज्ञानरूपिणः। सम्यग्दृष्टिन जायेत, नयानां ज्ञानमन्तरा ॥ .. नयानां ज्ञानयोगेन, सर्वदर्शनमोहता। .. नश्यति तत्क्षणादेव, तमः सूर्योदयाद्यथा ॥ सर्वधर्मविचाराणां, समावेशो न येषु हि । अतो नयैर्विना धर्मा, ज्ञायन्ते नैव कैरपि ॥ परस्पराणि युद्धानि, धर्माणां यानि भूतले । नयसापेक्षबोधेन, शाम्यन्ति तानि सत्वरम् ॥ यदात्मनि नया व्यक्ता, भवन्ति ज्ञानरूपिणः । तदात्मा सर्वधर्माणां, रहस्यं वेत्ति वस्तुतः॥ नयानां पूर्णवोधेन, जैनधर्मोपदेशकः । गीतार्थो जायते साधुधर्ममार्गप्रचारकः ॥ सविकल्पात्मरूपास्ते, नयाः सन्ति स्वभावतः । निर्विकल्पात्मरूपे तु, नयानां न प्रचारणा ॥ विकल्पाः सर्वसंकल्पा, नया एव विचारतः । मतिश्रुते नया एव, शुद्धात्मा निर्विकल्पकः ॥ निर्विकल्पक शुद्धात्मा, परात्मैव स्वभावतः। हृदि प्रकाशते पूर्णो, नयानुभवपाकतः ॥ यत्र सापेक्षता पूर्णा, निश्चयव्यवहारतः । तत्राचारविचारेषु, जैनधर्मो भवेत्सदा ।।
३२८
३३०
३३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org