________________
१८२
शानयोगः ] कर्मसंगेन संसारः, कर्मनाशेन मुक्तता। रागद्वेषपरीणामः, कमैंव देहकारणम् ॥ कर्मनाशो भवेच्छीघ्रं, शुद्धब्रह्मसमाधिना। चित्तस्य निर्मलावस्था, समाधिः सुखदायकः ॥ २५३ आत्मानन्दो भवेद्वयक्तश्चित्तविक्षेपनाशतः। मोक्ष एव मया ख्यातः, स्वसंवेद्यः सदात्मनाम् ॥ २५३ सर्वकर्मक्षयो मोक्षा, प्रत्यक्षज्ञानगोचरः। मोक्षः शुद्धात्मरूपोऽयं, शुभोऽस्ति देहयोगतः ॥ . २५४ यावदंशेन नाशः स्यात् , कर्मणस्तावदंशतः । मोक्ष आत्मगुणादीनां, वेद्यः शब्दादिभिनयैः ॥ २ आद्यैस्त्रिभिनयैर्मुक्तिरपेक्षातो निजात्मनः । ऋजुसूत्रनयान्मोक्षो, मोक्षस्य परिणामतः ॥ २५६ शुभयोगो भवेन्मोक्षः, समनस्को निजात्मनि । जीवन्मुक्तिः सदेहेऽपि, योगिनां शर्मरूपिणी ॥ २५७ मिथ्यात्वमोहनाशेन, सम्यग्मुक्तिर्निगद्यते । यस्यां मुक्तौ विवेकेन, वर्तन्ते मजनाः खयम् ॥ २५८ अच्युतमुक्तिसंप्राप्तिजनानां देशयोगिनाम् । भुञ्जाना दिव्यसौख्यानि, वर्तन्ते भव्यदेहिनः॥ २५९ स्वर्गलोकः शुभा मुक्तिरत्यन्तपुण्ययोगतः। प्राप्यते धर्मिसंघेन, दिव्यदेहसुखात्मिका ॥ मनुष्याः पुण्ययोगेन, दिवि देवा भवन्ति ते । ईश्वरास्तत्र सर्वेऽपि, गीयन्ते दिव्यशक्तितः ॥ देवानामवतारास्तु, भवन्ति कर्मयोगतः। .. अवतीर्य मनुष्यादौ, पुनः कर्माणि कुर्वते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org