________________
१८२
3
-बाह्यान्तरविभेदेन त्राटकेनैव योगिना । मनःस्थैर्य समादाय, प्राप्तव्यं परमं पदम् ॥ बाह्यान्तरविभेदाया, धारणायाः प्रकर्षतः । ध्यानस्य सिद्धता कार्या, ध्यानाञ्चित्तसमाधयः ॥ मोहादीनां मनोवृत्तिविकाराणां क्षयेण ये । योगिभिरनुभूयन्ते, संख्यातीताः समाधयः ॥ समाधिर्मोहनाशेन, योगिभिरनुभूयते । शुद्धात्मानन्दभोगेन, मुक्तिप्रत्ययता भवेत् ॥ ज्ञानावरण मोहादिक्षयोपशमभेदजाः । समाधयो संख्याता, नित्यैकः क्षायिकः समः ॥ 'वैषयिकरसास्वादे, समाधिर्नैव देहिनाम् । भोगासक्तौ समाधिर्न, निरासक्तौ समाधिता ॥ कृष्णाद्या अशुभा लेश्याः, सन्त्यज्य चित्तसंभवाः । समालम्ब्य शुभा भव्यैश्चित्तवृत्तिसमाधये ॥ ध्यातव्यो भगवानेको, विश्वेशः सर्वशक्तिमान् । जिनेन्द्रोऽर्हन्महादेवः सदसदादिधर्मवान् ॥ रागद्वेषपरीणामक्षयादात्मसमाधिता । सञ्जायते तदा मुक्तिरात्मशुद्धिस्वरूपिणी ॥ मनोलयो भवेद्यत्र, समाधिस्तत्र जायते । सातयुक्तस्य चित्तस्य, समाधिर्नैव वस्तुतः ॥ मोहादिसर्ववृत्तीनां संक्षयादात्मशान्तये । ज्ञानादिजागृतिस्पष्टः, समाधिर्जायते स्वतः ॥ व्यक्ताव्यक्तस्वरूपेण, दर्शनज्ञानसम्पदः । आत्मसमाधियोगेन, जायन्ते योगिनां हृदि ॥
Jain Education International
"
"
[ पञ्चदशाध्याये
For Private & Personal Use Only
२३९
२४०
२४१
२४२
२४३
२४५
२४६
२४७
२४८
२४९
२५०
www.jainelibrary.org