SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ ज्ञानयोग: ] तत्त्वज्ञानमहायोगं, समासाद्य विवेकतः । भवन्ति परमात्मानो, लीनाः सन्तः परात्मनि ॥ तत्त्वज्ञानमहायोगो, जैनधर्मप्रवर्त्तकः । पार्श्वतीर्थेशतः पश्चान्मया सम्यक् प्रकाशितः ॥ आध्यात्मिकं स्वरूपं मे, शुद्धज्ञानस्वरूपतः । पूर्णज्ञानं समासाद्य, देहिनो मुक्तिगामिनः ॥ तत्त्वज्ञानं विना नास्ति, मद्रूपमन्यथा कदा | ज्ञानं यत्राऽस्ति तत्राहं, व्यक्तः सूर्यादिभासकः ॥ सर्वमुख्यस्वभावो मे, ज्ञानयोगः सनातनः । सिद्धाः सिद्धयन्ति सेत्स्यन्ति, जीवा ज्ञानप्रभावतः ।। २३१. पवित्रेषु पवित्रं मे, ज्ञानं सर्वप्रकाशकम् । सर्वत्र ज्ञानरूपेण, व्यक्तोऽहं देहिनां हृदि ॥ सर्वत्र ज्ञानयोगेऽहं सम्यक्त्वादिगुणालयः । जानन्ति ज्ञानयोगस्य, माहात्म्यं ज्ञानयोगिनः ॥ जातिनैव जरामृत्युरात्मनः सर्ववेदिनः । नैव चिह्ननं नरो नारी, नपुंसकश्च निश्चयात् ॥ ध्यातव्यः प्रापणीयश्चाऽन्तरात्मा सर्वशक्तिमान् । ब्रह्मरन्धे स्थिरं कृत्वा, प्राणवायुं मनीषिभिः ॥ शुद्धात्मनि स्थिरीकृत्य, मनोयोगपरायणैः । नामरूपात्मनोर्मोहं त्यक्त्वा च दुष्टवासनाम् ॥ पूर्णानन्तमहाज्योतिः, प्राकटयं सच्चिदात्मकम् । कर्त्तव्यं द्रव्यभावेन, षट्चक्रस्य प्रकाशतः ॥ " केवलं कुंभकेनैव, मनःसङ्कल्पशान्तता । कर्त्तव्या द्रव्यभावेन, यतो ज्योतिः प्रकाशते ॥ Jain Education International For Private & Personal Use Only १८१ २२७ २२८. २२९. २३० २३२ २३३. २३४ २३५ २३६ २३७४ २३८. www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy