SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ १.८० [पञ्चदशाध्याये सर्वाऽर्हत्सिद्धरूपात्मा, सत्तातोऽहं जना हृदि । विज्ञाय व्यक्तरूपं स्वं, कर्तुमुत्तिष्ठत स्वतः ॥ २१५ कृतकर्मविपाकानां, भोक्तारः सर्वदेहिनः। धर्मादधर्मनाशोऽस्ति, सर्वत्र सर्वदेहिनाम् ॥ तत्त्वभेदाः समाख्यातास्तात्त्विकाचौपचारिकाः । भक्ता मेऽतिप्रियास्तत्त्वज्ञानिनो मत्परायणाः ॥ २१७ तत्त्वज्ञसूरयो बोध्या, जैनधर्मप्रचारकाः। मत्पदाधीशसूरीणां, तत्त्वज्ञानात्सदुन्नतिः॥ २१८ सर्वविश्वस्य कल्याणकारकं जैनशासनम् । वर्द्धयते सर्वतत्त्वज्ञैः, सूरिभिः साधुभिस्तथा ॥ तत्त्ववेदिमदाचार्यैर्मत्पदृस्थपरम्परैः । वद्धर्थते शासनं जैनविश्वकल्याणकारकम् ॥ गृहस्थत्यागिजैनास्तु, जयन्ति तत्त्वबोधतः । सर्वतत्त्वस्य सारं मां, वेत्तारो यान्ति मत्पदम् । २२१ सूर्यप्रकाशयोगेन, तमो नश्यति तत्क्षणम् । तथा मोहादिकर्माणि, नश्यन्ति ज्ञानयोगतः ॥ ज्ञानयोगसमो योगो, नैव भूतो भविष्यति । ज्ञानयोगस्वरूपोऽहं, सर्वयोगशिरोमणिः ॥ २२३ तत्त्वज्ञानमहायोगः, सर्वदोषनिवारकः । इच्छायोगेन संसेव्यो, हृदि चिन्त्यः पुनः पुनः॥ २२४ अहर्निशं तदाभ्यासः, कर्त्तव्यः पूर्णरागतः। ज्ञानान्मुक्तिं ब्रजेद्भव्य, आत्मचारित्रपूर्वकम् ॥ ज्ञानयोगेन मुक्तिस्तु, ज्ञानिनां तत्क्षणं भवेत् । प्राधान्यं सर्वयोगेषु, ज्ञानयोगस्य शाश्वतम् ॥ २२६ २२२ २२६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy