________________
शानयोगः ] शुभाऽशुभपरीणामान्मुक्तोऽपि मजनो भवेत् । हिताय सर्वलोकानां, कारकः पुण्यकर्मणाम् ॥ शुभाऽशुभपरीणामान्मुक्तानां कर्मयोगिनाम् । निर्लेपत्वं च मत्प्राप्तिः, कर्त्तव्यकर्मकारिणाम् ॥ २०४ संवरनिर्जराप्राप्तावात्मशुद्धिः प्रजायते। पूर्णशुद्धया भवेन्मोक्षः, सर्वेषां ज्ञानयोगिनाम् ॥ २०५ यादृशो यस्य संकल्पः, स्वपरार्थकृतो भवेत् । फलं तस्य भवेत्ताहग्विज्ञेयमिति मानवैः ॥ २०६ कृतः स्वार्थाय संकल्पः, फलति स्वार्थसिद्धये । पराथ क्रियमाणश्व, परेषां फलदायकः ॥ शर्मदाः शुभसंकल्पा, विपरीता अनर्थदाः।। त्यक्त्वाऽशुभाजनैर्भव्याः, सेव्याः कल्याणसाधकैः ॥ २०४ शुभाशुभविकल्पानां, संकल्पानाच वस्तुतः । अधिष्ठानं मनो ज्ञेयं, सर्वसंसारकारणम् ॥ २०९. स्वर्गश्वभ्राय लोकानां, मनोऽस्त्येव शुभाऽशुभम् । निर्विकल्पं मनो मुक्त्यै, विज्ञातव्यं विवेकतः ॥ २१० मयि मनोऽर्पणं कृत्वा, कर्म कुर्वन्ति ये जनाः। तेषां चित्तस्य संशुद्धिर्जायते मत्प्रभावतः॥ भक्ता भवन्ति निष्कामा, मयि चित्तप्रदायकाः। ज्ञानध्यानपरा भक्ता, योगिनो यान्ति मद्गतिम् ॥ २१२ मनोनाशाद्भवेन्मुक्तिः, पूर्णानन्दस्वरूपिणी । शुद्धात्मनि मनो देयं, पूर्णशुद्धात्मकांक्षिभिः ॥ २१३ शुद्धात्मैव महावीरः, स्वयं संबोधयाम्यहम् । सत्तातः परमात्माहमिति जानीत मानवाः॥ २१४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org