________________
.
..
१७८ .
[पञ्चदशाध्याये पापाचारविचाराणां, कृत्वा त्यागं मनीषिभिः । पुण्याचारविचाराणां, सेवा कार्याऽप्रमादतः ॥ १९१ जगत्येकमहासारा, जैनधर्मस्य सेवना। स्वर्गसिद्धिप्रदा ज्ञेया, सर्वपापविनाशिका ॥ १९२ आदिनाथादितीर्थेशै नधर्मः प्रकाशितः। तदाराधनयोगेन, स्वर्गसिद्धिर्भवेन्नृणाम् ॥ आत्मवत्सर्वलोकानां, स्वातन्त्र्यशर्महेतवे । दुःखिनां दुःखनाशार्थमुद्योगः पुण्यबन्धकृत् ॥ १९४ अनीतीनां विनाशेन, पुण्यबन्धः प्रजायते । पशुपक्षिद्रुमादीनां, रक्षातः पुग्यबन्धनम् ॥ सर्वजातीयपुण्यस्य, प्राप्तिः पापस्य नाशनम् । जायते सर्वलोकानां, जैनधर्मस्य सेवनात् ॥ .. १९६ विज्ञाय पुण्यपापस्य, हेतून्भव्या विवेकतः।। स्वाऽधिकारेण वर्तध्वं, जैनधर्माऽधिकारिणः ॥ १९७ जैनधर्मस्य साम्राज्यप्रगत्यर्थ विवेकतः। स्वाऽधिकारेण सेवध्वं, पुण्यकर्माणि सर्वदा ॥ कुर्वन्तु पुण्यकर्माणि, मज्जना व्यवहारतः । निष्कामानां सकामानां, कल्पोऽस्त्येवं मनीषिणाम् ॥ १९९ स्वाऽधिकारेण कर्माणि, कुर्वन्ति मन्जना बुधाः । आत्मज्ञान्यपि मोक्षार्थी, बाह्यतः पुण्यकारकः ॥ २०० परोपकारकायषु, यतध्वं स्वात्पभोगतः। . परोपकारः पुण्याथ, पापार्थ परपीडनम् ॥ २०१ सकामपरिणामेन, भवेद्वन्धो मनीषिणाम् । निष्कामपरिणामेन, बन्धो नैवाऽस्ति देहिनाम् ॥ . २०२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org