________________
नयोगः ]
सप्तक्षेत्र्यां सदा दानात, पुण्यबन्धश्च निर्जरा । आत्मज्ञानस्य दानेन, धर्मिणां रक्षणात्तथा ॥ सूरिवाचक साधूनामन्नवस्त्रादिदानतः । श्राद्धानां श्राविकाणाञ्च वात्सल्यादिककर्मभिः ॥ सर्वथा संघ सेवातो, जिनेन्द्राणाञ्च सेवनात् । पुण्यानुबन्धिपुण्यस्य, बन्धो भव्यमनीषिणाम् ॥ औषधदानयोगेन, रोगिणां रोगनाशनात् । बोधिबीजस्य दानेन, महापुण्यं समुद्भवेत् ॥ जैन धर्ममहा विद्यापीठानां सर्वभूतले । स्थापनात्पालनाच्चैव महापुण्णं मनीषिणाम् ॥ जैनधर्मस्य संघस्य, रक्षणात्सर्वशक्तिभिः । सर्वजातीयलोकानां, त्यागिनाञ्च मनीषिणाम् ॥ बन्धस्तीर्थकृतो नाम्नः, प्रान्ते मुक्तिः क्रमाद्भवेत् । मदुक्तं हृदये भव्या, धारयध्वं सुरागतः ॥ दुःखार्त्त सर्व जीवानामनाथानां विशेषतः । अन्नज्ञानादिदानेन कर्त्तव्या भक्तिरुत्तमा । परोपकारकार्येषु, भेदो धार्यो न मज्जनैः । आत्मभावेन सर्वेषां, सेवया पुण्यबन्धनम् ॥ जीवानां शस्यभावेन, महापुण्यप्रदायकम् । विज्ञाय कर्म मद्भक्तैः कर्त्तव्यं धर्म्यनीतितः ॥ पारतन्त्र्यमहादोषप्रं पापनिबन्धनम् । पापकर्म सदा त्याज्यं, शान्तिशर्भविनाशकम् ॥ धर्मार्थकाममोक्षाणां नाशकं पापमुच्यते । नीतिधर्म सदाचारनाशकं सर्वदेहिनाम् ॥
Jain Education International
,
3
For Private & Personal Use Only
१९७७
१७९
१८०
१८१
१८२
१८३
१८४
१८५
१८६
१८७
१८८
१८९
१९०
www.jainelibrary.org