SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ १७६ लघुपुण्यं महापुण्यमिहाऽमुत्रफलप्रदम् । पापानुबन्धिपुण्यञ्च, देवमानवपुण्यकम् ॥ लक्ष्मीणां प्रापकं पुण्यं, लक्ष्मीपुण्यं तदुच्यते । धर्माणां प्रापकं पुण्यं, धर्मपुण्यं मयोच्यते ॥ साधूनामन्नदानाद्यैः, पुण्यबन्धः प्रजायते । यदर्थे यैः कृतं पुण्यं तदर्थं तत्फलप्रदम् ॥ जीवैः पूर्वकृतं कर्म, भुज्यते स्वाऽन्यजन्मनि । तथेह तीव्रकर्माणि, फलन्त्येव नृणां स्फुटम् ॥ सर्ववर्णैः कृतं पुण्यं, वर्णपुण्यं निगद्यते । शस्ययज्ञैः कृतं पुण्यं, यज्ञपुण्यं मयोच्यते ॥ वर्षार्थ यत्कृतं पुण्यं वर्षापुण्यं निगद्यते । सकामं यच निष्कामं, कृतं फलति बीजवत् ॥ स्वात्मार्थ यत्कृतं पुण्यं, स्वात्मार्थ फलति ध्रुवम् । परार्थ यत्कृतं पुण्यं परेषां फलदं भवेत् ॥ पुण्यबन्धः प्रजायेत, पुण्यबन्धस्य हेतुभिः । जायते पापबन्धोऽपि देहिनां पापहेतुभिः || [ पञ्चदशाध्याये ༡ अनेक आन्तरा बाह्याः, पुण्यबन्धस्य हेतवः । अनेक आन्तरा बाह्याः, पापबन्धस्य हेतवः ॥ पुण्यकर्मविरुद्धाः स्युः, पापबन्धस्य हेतवः । पुण्यात्सुखं तथा पापाद्दुःखं सर्वत्र देहिनाम् ॥ राजसं तामसं पुण्यं, सात्त्विकं पुण्यमुच्यते । निकाचितं कृतं पुण्यं, क्षीयते भोगकर्मणा ॥ ज्ञानाद्यैः सर्वसद्योगैः, प्रशस्यपरिणामतः । पुण्यबन्धोऽस्ति जीवानां, पापबन्धस्तथेतरैः ॥ Jain Education International For Private & Personal Use Only १६७ १६८ १६९ १७० १७१ १७२ १७३ १७४ १७५ १७६ १७७ १७८ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy