________________
-
१५५
१५९
शानयोगः ] सर्वजीवस्थचैतन्यं, सर्वब्रह्म सदुच्यते।। ध्येयं तत्पूर्णभावेन, पूर्णानन्दप्रकाशकम् ॥ एकात्मा सर्वजीवानां, महाचैतन्यसत्तया । अनन्ता व्यक्तितो जीवा, असंख्यातप्रदेशिकाः॥ १५६ द्रव्यरूपं सदात्मानं, चिदानन्दगुणालयम् । पश्यन्तु पूर्णसद्ब्रह्म, भव्याः पर्यायभाजनम् ॥ १५७ अनाद्यनन्तकालीना, आत्मानः कर्मसंयुताः । रागद्वेषमहाकर्मक्षयाद्भवति सिद्धता ॥ अनाचनन्तकालीनं, जगद द्रव्यतयोच्यते । पर्यायाऽपेक्षया सादिसान्तं चानाद्यनन्तकम् ॥ पञ्चद्रव्यात्मकं विश्वं, विज्ञातव्यं विवेकतः। उत्पत्तिव्यययुक्तं यत्सद्व्यं तत्प्रचक्ष्यते ॥ द्रव्येषु ये तिरोभावाः, पर्यायाः सन्ति सत्तया। आविर्भावेन ते व्यक्ता, भवन्ति खस्वभावतः॥ पञ्चद्रव्यात्मविश्वस्योत्पत्तिव्ययौ स्वभावतः। लयस! विबोद्धव्यौ, ध्रौव्यश्च द्रव्यसत्तया ॥ देशपुण्यं तथा राष्ट्रपुण्यं संघेन यत्कृतम् । संघपुण्यश्च विज्ञेयं, सामाजिकश्च नैतिकम् ॥ ज्ञातिभिर्यत्कृतं पुण्यं, ज्ञातिपुण्यं प्रचक्ष्यते । नगरग्रामपुर्यादिकृतं, तेषां फलपदम् ॥ जातिभिर्यत्कृतं पुण्यं, जातिपुण्यं प्रचक्ष्यते। विश्वजीवैः कृतं पुण्यं, विश्वपुण्यं प्रकथ्यते ॥ .. १६५ शीघ्रफलप्रदं पुण्यं, तीव्रप्रीत्या च यत्कृतम् । मन्दखण्डमखण्डञ्च, पुण्याऽनुबन्धिपुण्यकम् ॥ १६६
१६१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org