SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १७४ [ पञ्चदशाध्याये जैनरूपं जगत्सर्व, सत्ताव्यक्तिस्वभावतः । जैनाः सर्वे जिनेन्द्राः स्युः, शक्तीनां व्यक्तियोगतः ॥ १४३ महावीरमयं विश्वं पश्यन्वीरो भवेज्जनः । आत्मानः स्युर्महावीरा, व्यक्तितः परमेश्वराः ॥ १४४जना गुरोः कृपां प्राप्य, प्रेमसेवाप्रभावतः । संत्यज्य बहिरात्मत्वमन्तरात्मस्वरूपकाः ॥ भवन्ति परमात्मान, आत्मशुद्धोपयोगतः । एवं विज्ञाय तत्त्वज्ञाः, साधयन्ति स्वशुद्धताम् ॥ आत्मनो बहिरानन्दः, कुत्राऽपि नैव जायते । आत्मन्येव स्वयं शोध्यः, पूर्णानन्दमहोदधिः ॥ आत्मैव सर्वथा ज्ञेयो, जिनो जैनश्च वस्तुतः | आत्मनः सर्वनामानि ब्रह्मादीनि निबोधताम् ॥ -- पर्यायाणां गुणानाञ्च, प्रादुर्भावो निजात्मनि । तदा कर्मक्षयो मुक्तिर्जायते पूर्णसिद्धता || सर्वेषां भव्यजीवानां, मुक्तियोग्यस्वभावता । अस्ति व्यक्तितया तेषां मुक्तिर्ज्ञानादितो भवेत् ॥ दर्शनज्ञानचारित्रगुणानां व्यक्तिभावतः । यस्य कस्यापि जायेत, मुक्तिस्तत्र न संशयः ॥ आत्मनि स्वात्मरङ्गेण, मुक्तिर्भव्यमनीषिणाम् । व्यक्तपूर्ण परब्रह्म, परात्मैव स्वयं भवेत् ॥ १५० " स्वात्मैव परमात्माऽस्ति भव्या ! धारयतात्मसु । त्वं धाम सर्वशक्तीनां सर्वास्ताः प्रकटीकुरु ॥ आत्मनो व्यवहारेण, भेदास्ते नैव निश्चयात् । संग्रहनयसत्तात, एकात्मा परमेश्वरः ॥ Jain Education International " 9 For Private & Personal Use Only १४५. १४६ १४७ १४८ १४९ १५१. १५२ १५३ १५४ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy