________________
ज्ञानयोगः] अनादिकालसंयोग, आत्मनः कर्मणा सह । आत्मनः सर्वथा कर्मक्षयान्मुक्तिः प्रजायते ॥ आत्मज्ञानेन मोहस्य, क्षयो भवति सर्वथा । अतो गुरोः कृपां प्राप्य, सलज्ञानं भजन्तु भोः ॥ १३२ आत्मज्ञानं यदा पक्वं, हृदि संजायते तदा । आत्मचारित्रधर्मस्य, प्राकटयं भवति स्वतः ॥ आत्मज्ञानबलात् प्राप्य, चारित्रं शर्मरूपकम् । ज्ञानानन्दस्वरूपोऽयं, मोक्षः स्वेनाऽनुभूयते ।। सर्वविश्वपदार्थानां, ज्ञानाऽनुभवयोगतः । आत्मोत्क्रान्तिर्भवेत्पूर्णा, केवलज्ञानदायिका ॥ येन पूर्णस्वरूपेण, ज्ञात आत्मा स्वभावतः। ज्ञातं तेन जगत्सर्व, लोकाऽलोकस्वरूपकम् ॥ १३६ श्रोतव्यः पूर्णबोद्धव्य, आत्मा पूर्णप्रकाशकः। सर्वविश्वस्य सारोऽयमन्तर्यामी परात्परः॥ १३७ शोधितव्यो महानात्माऽऽत्मनाऽऽत्मनि विभुः प्रभुः ॥ पूर्णानन्दमयः शुद्धः, दुःखातीतो रसोदधिः ॥ १३८ आत्मा निजखभावेन, पूर्णज्ञानाप्तयेऽखिले। विश्वे सर्वपदार्थानां, शालायां पठति स्वतः॥ १३९ ज्ञानवर्तुलसंघेन, क्षायिकज्ञानवान्स्वयम्। आत्मा भवति सर्वज्ञो, ज्ञानावरणनाशतः॥ १४० याक्ताहगवस्थायां, स्थितोऽपि ज्ञानयोगतः। भव्य आत्मोन्नतेार्गक्रमेणाचं व्रजेत्स्वयम् ॥ १४१ परीषहोपसर्गाद्या, अन्तरात्मप्रदर्शकाः। सम्यग्दृष्टया मनुष्याणां, भवन्ति सर्वरीतितः॥ १४२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org