SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ૨૭૨ [ पश्चदशाध्याय योगं परस्परं भिन्नमालम्ब्य मत्पदं श्रिताः। एकेनाऽध्यवसायेन, शुभेन शिवगामिनः ॥ स्वतोऽन्ययोगभेदेषु, स्वात्मवज्ज्ञानदृष्टितः । सिद्धाः सिद्धयन्ति सेत्स्यन्ति, चैकैकशुभयोगतः ॥ १२० अनन्ता भव्यजीवा ये, भिन्नयोगाऽनुसारिणः । मन्तव्या आत्मवत्सर्वे, योगिनः क्रमवर्तिनः ॥ १२१ आत्मरंगः परोत्कृष्टः, पूर्णब्रह्मरसायनः। सर्वयोगेन तं प्राप्य, मत्पदं यान्ति देहिनः ॥ १२२ आत्मोल्लासमहारंग, संप्राप्य सर्वयोगिनः । भिन्नाऽसंख्यनिमित्तेन, यान्ति शुद्धात्ममत्पदम् ॥ १२३ आत्मशुद्धमहारंगं, संप्राप्यात्मनि संस्थितः । अनुभूय परात्मानं, मुच्यते सर्वकर्मभिः ॥ .. १२४ सत्त्वरजस्तमोवृत्तिभिन्नात्मा सत्तया मतः । आत्मा शुद्धरसेनैव, मुच्यते सर्ववृत्तितः ॥ १२५ रागद्वेषक्षयान्मुक्तिः, सर्वधर्मस्थदेहिना । संप्राप्य वीतरागत्वमात्मा याति शिवं पदम् ॥ १२६. पुण्यं शुभकषायेण, शुभाचारेण जायते । दुष्टाचारविचारेण, पापबन्धः प्रजायते ॥ १२७ सत्वपुण्यसदाचाराज्जायते मुक्तियोग्यता। कर्मसु क्रियमाणेषु, देयं चित्तं परात्मनि ॥ १२८ सत्त्वरजस्तमोभेदैवुद्धेस्त्रविध्यमङ्गिनाम् । सेवाऽऽहारी त्रिधा ख्यातौ, त्रिधा सर्वक्रियोच्यते॥ १२९ शुभाऽशुभे. समावेशः, सत्त्वादीनां स्वभावतः ।। द्वित्वं त्रित्वं मदुक्तं तज्ज्ञातव्यं कर्मप्रकृतेः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy