________________
-
१०७
११०
ज्ञानयोगः ] अध्यात्मज्ञानयोगेन, देहिनां कर्मणां क्षयः। ... दर्शनज्ञानचारित्रप्राकटयञ्च प्रजायते ॥ अनन्तभवबद्धानां, विनाशं सर्वकर्मणाम् । करोत्येकक्षणे ज्ञानी, स्वात्मशुद्धोपयोगतः ॥ १०८ अनन्तकेवलज्ञानदर्शनानन्दभाजनम् । शुद्धात्मानं हृदि ध्यात्वा, ज्ञानी मुक्तिपुरीं व्रजेत् ॥ १०९ आत्मज्ञानाद्भवेज्ज्ञानी, तत्त्वाभ्यासरसी जनः । अन्तर्मुखोपयोगेन, तत्त्वज्ञानं प्रजायते ॥ जैनो जिनेन्द्रतां याति, पूर्णशुद्धोपयोगतः। नीतितो द्रव्यभावाऽरिजयाज्जैनो भवेजनः॥ १११ येनांशेन जयेन्मोहं, भवेज्जैनस्तदंशतः। जिनोपासनतो जैनः, स्वात्मा जैनो जिनस्तथा । ११२ द्वेषत्वं दुर्गुणेष्वेव, सदगुणेषु च रागता । भवेत्तस्याऽस्ति जैनत्वं, स्फुटमंशाद्यपेक्षया॥ ११३ आत्मज्ञानी भवेज्जैनो, यत्र तत्राश्रमे स्थितः। पुमान्वर्णेतरो वर्णी, स्त्री च सद्गुरुसेवनात् ॥ ११४ गुणस्थानकमारोह, आत्मशक्तिप्रवर्द्धकः। मिथ्यात्वादिक्रमोपेतो, जायते भव्यदेहिनाम् ॥ बहिरात्माऽन्तरात्मत्वं, याति मद्बोधरागतः। अन्तरात्मा स्वयंशुद्धः, परात्मा भवति ध्रुवम् ॥ ११६ एकात्मा बहिरात्मादिभेदात् त्रिधा प्रचक्ष्यते। जीवाः परात्मतां यान्ति, मयि विश्वासरागतः ॥ ११७ असंख्याताः शुभा योगा, ज्ञातव्या मुक्तिहेतवः। . योगेनैकेन संजाता, अनन्ता मुक्तिगामिनः॥ .. ११८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org