________________
१७०
[पञ्चदशाध्याये पुरुषार्थबलेनैव, कालाद्याः सर्वहेतवः। सानुकूलाः प्रजायन्ते, जीवानां कार्यसिद्धये ॥ अनाद्यनन्तकालीन विश्वकर्ता महाप्रभुः। कालादिपञ्चसंघोऽस्ति, लयोत्पत्तिधृवात्मकः ॥ मम ज्ञानबलादेव, विश्वचक्रप्रवर्तकाः । कालादीनां महासंघ, उपादाननिमित्तवान् ॥ समूहः पञ्चहेतूनां, मद्रूप औपचारिकः । ज्ञाताऽहमपि पञ्चानामतोऽस्मि सर्वतोऽधिकः ॥ मदन्तवर्तिपर्यायाः कालाद्याः सर्ववर्तिनः। ईश्वरादिपदार्हाणि, सर्वद्रव्याणि शक्तितः ॥ जीवाऽजीवपदार्थेषु, सर्वेषु धूर्यतां वहन् । सर्वविश्वसमुद्धर्ता, मत्तो नाऽन्योऽस्ति सद्विभुः ॥ १०० सत्कृपा धर्मरूपैव, कोपश्च पापमूलकः । पुण्यपापविपाकेन, धर्माऽधर्ममतिस्तथा ॥ धर्मरूपः प्रभुर्बोध्या, सदबुद्धयादिप्रकाशकः । वक्त्वाऽधर्मञ्च मद्भक्त्या, धर्म संयान्ति मन्जनाः ॥ १०२ सन्त एवेश्वराः प्रोक्तास्तत्कृपायुक्तमानवाः । मन्तव्या मत्कृपायुक्ताः, शीघ्रं यान्ति महत्पदम् ॥ १०३ गुर्वादीनां कृपा नास्ति, येषु ते पापबुद्धयः । मत्कृपार्थमयोग्यास्ते, सद्गुरुद्वेषकारकाः॥ उत्कटाऽधर्मकर्तारः, शीघ्रं दुःखस्य वेदकाः। देशे संघे कुले जातो, पापा उत्पातकारकाः ॥ . दयादानादिकर्त्तारो, यत्र देशेषु देहिनः । तत्र देशेषु शान्त्यादिहेतवो धर्मयोगतः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org