________________
ज्ञानयोगः ]
विश्व पर्यायरूपं यत्, तत्कर्ता द्रव्यभावतः । कालादिसंघरूपोऽस्ति, प्रभुः सर्वत्र शक्तिमान् ॥ कार्यरूपं जगत्सर्वमुत्पत्तिव्ययरूपकम् । श्रव्यं द्रव्यस्वरूपेण, जगत्सर्वं निबोधत ॥ कर्त्तृत्वं स्वस्वभावेन, सर्वद्रव्येषु वस्तुतः । अन्यनिमित्तकर्तृत्वमौपचारिकभावतः ॥ कार्यहेतुप्रवाहेण, कार्यसृष्टिविधायकः । कालादिसंघरूपोऽस्ति, प्रभुः स्रष्टा प्रतिक्षणम् ॥
कालकर्मादिहेतूनां संघ एव महाप्रभुः । पर्यायरूपविश्वस्य, लयोत्पादप्रवर्त्तकः ॥ कालकर्मादिहेतृनां संघः सृष्टिनियामक: । साकारश्च निराकारो, मज्ज्ञाने ज्ञेयरूपकः ॥ कार्यसिद्धिर्भवेन्नैव, कालादिसंघमन्तरा । कालादीनां पृथक्त्वेन, कार्यसिद्धिर्न जायते ॥ कालादिसंघरूपोऽस्मि, कथंचिन्नयबोधतः । ततो भिन्नः स्वभावेन तत्प्रबोधप्रवर्त्तकः ॥ कालादिषु महासत्ता, नियतिरेव वस्तुतः | वर्तनी सर्वविश्वेषु सर्वहेतुनियामिका ॥ तदायत्तं जगत्सर्वे, महादेवी निगद्यते । ज्ञातव्या मज्जनैः सम्यक्, सर्वविश्वनियामिका ॥ जीवाऽजीवजगत्सर्व, तदाज्ञाव्यापकं सदा । परब्रह्मादिजीवाश्च नियत्याज्ञाप्रवर्त्तकाः ॥
"
Jain Education International
,
नियत्याधीनकर्माचा, एव ब्रह्मादयः स्मृताः । नियतेः कार्यसिद्धत्वं ज्ञायते कर्मयत्नतः ॥
,
"
For Private & Personal Use Only
१६९
८३.
८४
८५
८६.
67
ሪ
८९
९०.
९१
९२
९३
९४
www.jainelibrary.org