SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १६८ आध्यात्मिक महाशक्तो, जीवाऽजीवस्य जीवकः । प्रेरकः सवकार्येषु, व्यक्तजीवनजीवकः ॥ ईश्वरः प्रेरणाशक्तिः, कर्मकारकशक्तिमान् । पर्यायाणां व्ययोत्पादकारकः सर्ववीर्यवान् ॥ कर्मादिषु महाशक्तः, पुरुषार्थः प्रकीर्त्तितः । उद्यमः सर्वतः श्रेष्ठो, धर्माविर्भावकारकः ॥ मुख्यता पुरुषार्थस्य, कारणेषु स्वभावतः । मज्जनेषु शुभोद्योगो, जायते भक्तिभावतः ॥ पर्याया उद्यमस्यैते, ज्ञातव्या व्यवहारिभिः । क्रमेण कथिताः सर्वे, तथाऽनुक्ता गुरोर्मुखात् ॥ अधिष्ठानं तथा प्रागाः, करणश्चान्तरात्मनः । सर्वकारणसंयोगैः, कार्यसिद्धिः प्रजायते ॥ मनोवाक्कायद्योगैरात्मा कर्त्ताऽस्ति कर्मणाम् । संहर्ता परिनिर्वाता, विश्वकारकशक्तिमान् ॥ सर्वकार्यस्य सिद्धिः स्यात्, कालादिपञ्च हेतुभिः । कार्यरूपस्य विश्वस्य कर्त्तारः पञ्च हेतवः ॥ कार्यरूपं जगत्सर्व, विश्वपर्यारूपकम् । सादि सान्तं तथानाद्यनन्तरूपमपेक्षया ॥ जगत्पर्यायरूपेण, जीवाऽजीवस्वरूपकम् । कालाया ईश्वरा बोध्यास्तत्कर्त्तारः स्वभावतः ॥ अनाद्यनन्तकालीनं, जीवाऽजीवस्वरूपकम् । जगत्सर्व जनैज्ञेर्यमकर्तृत्वस्वभावकम् ॥ द्रव्यरूपं जगत्सर्व, तस्य कर्ता न विद्यते । अनाद्यनन्तकालीनं, वर्त्तते द्रव्यसत्तया ॥ Jain Education International [ पञ्चदशाध्याये For Private & Personal Use Only ७१ ७२. ७३ ७४ ७९ ७६ ७७ ७८ ७९. ८० ८१ ८२ www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy