________________
कानयोगः] शुद्धात्माऽहं सदा भव्यायमानो जिनेश्वरः । सत्तातः सर्वजीवानां, शुद्धपर्यायवानहम् ।। वस्तुतः सर्वजीवानां, ज्ञानादिशुद्धपर्ययाः। मद्रूपास्ते विबोद्धव्यास्ततो भिन्नोऽस्म्यपेक्षया । आत्मनः शुद्धपर्याया, मत्समाः सर्वदेहिनः । मत्तङ्गेदो न जीवेषु, शुद्धात्मसत्तया मतः ॥ भूता भवन्ति पर्याया, भविष्यन्ति तथाऽपरे । परात्मवाच्यभावा ये, सर्वे मद्रूपवाचकाः ॥ नयैः सर्वैरहं ज्ञेयः, सत्प्रमाणस्तथा विभुः । सर्वतर्केरक्योऽहं, सदसदादिरूपवान् ॥ शुभाऽशुभपुरुषाथफलमुत्पद्यते क्रमात् । पुण्यं पापश्च तद्धेतू , रागाद्याः कर्मपर्वयाः॥ शुभाशुभपरीणामात् , सुखं दुःखञ्च देहिनाम् । तत्त्यागाद्देहिनां मुक्तिर्मद्रूपा शाश्वती भवेत् ।। सत्त्वरजस्तमोवृत्तिर्जीवानां जन्महेतुका। भववृक्षस्य मूलं सा, सर्वाऽवतारकारिका ॥ मनोवाकायसन्मूलं, सूक्ष्मादिदेहकारणम् । मोहादिकर्मणां सन्ति, प्रकृतयः स्वभावतः ॥ अदृष्टं हरिरिच्छा च, सत्तावद्विश्वभ्रामकम् । ब्रह्माविष्णुमहेशाद्या, अनेके कर्मपर्ययाः॥ पुरुषार्थः प्रयत्नश्च, सर्वशक्तिप्रचारकः । उत्पादकश्च संहर्ता, कर्मणां वीर्यवांस्तथा ॥ ईश्वरीयमहाशक्तिः , सर्वसामर्थ्यकारणम् । विष्णुशक्तिर्महावीर्य, आत्मधर्मः स्वभावजः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org