________________
१६६
[ पञ्चदशाध्याये
मत्स्वरूपस्य गानानां, कारका भक्तिभाजकाः । ये प्रीत्या मयि संलीना, महाज्योतिः श्रयन्ति ते ॥ ४७ जीवाः पञ्चविधा ज्ञेया, एकेन्द्रियादिभेदतः ।
"
आत्मानो द्विविधा ज्ञेयाः सिद्धाः सांसारिकास्तथा ॥ ४८ बहिरन्तः परात्मानस्त्रिधाऽशुद्धादिभेदतः । नैकधोपाधितो भेदा, जीवानां सन्ति सर्वदा || पुरुषार्थस्तथा कर्म, स्वभावो नियतिः खलु । कालः पञ्चेति विज्ञेया, हेतवः कार्यकारकाः ॥ स्वभावो वस्तुधर्मोऽस्ति, सर्वशक्तिनियामकः । अजीवानाञ्च जीवानामन्तर्वर्त्ती महाप्रभुः || स्वभावस्य परिज्ञाता, सर्वदेवशिरोमणिः । मदायत्तो महाकालो, मद्धर्माणां प्रवर्त्तकः ॥ व्ययोत्पत्तिस्वरूपोऽस्ति, महाकालो मदात्मनि । बोद्धव्यः सर्वसंवर्त्ती, पर्यायो मे चिदः सदा ॥ नियतिर्भाविभावः स्यादीश्वरेच्छा बलीयसी । महाशक्तिर्महासत्ता, भोग्यकर्मनिकाचना ॥ प्रारब्धकर्मपाकोऽस्ति, गुप्तशक्तिर्नियामिका । पर्यायाणां व्ययोत्पादा, सर्वकार्येषु वर्त्तिनी ॥ शुद्धात्मसर्वधर्माणां व्ययोत्पादस्य निश्चयः । परमा नियतिर्बोध्या, सर्वज्ञज्ञेयरूपिणी ॥ महेश्वरी महामाया, प्रभुशक्तिर्विवेकिनी । गुप्तशक्तिरकल्पाऽस्ति, नैसर्गिक्यस्ति सत्कला ॥ तिरोभावीयधर्माणामाविर्भावोऽस्ति सर्वतः । ते परब्रह्मणो ज्ञेयाः, पर्याया नियतेः खलु ॥
Jain Education International
For Private & Personal Use Only
४९
५०
५१
५२
५३
५४
५६
५७
५८
www.jainelibrary.org