________________
मानयोगः] आविस्तिरःस्वभावेन, सर्वधर्माः प्रतिष्ठिताः। द्रव्येषु तान्यनादीनि, बोद्धव्यानि च तत्त्वतः ॥ अवादिसान्तता बोध्या द्रव्यपर्याययोगतः। सर्वद्रव्येषु भावानां, व्ययोत्पत्तिः प्रतिक्षणम् ॥ उत्पादः सर्वसृष्टीनां, सर्ग एव मयोच्यते । लय एव व्ययः प्रोक्तो, मम ज्ञाने जडात्मनाम् । द्रव्याणां ध्रौव्यभावोऽस्ति, नित्यो मत्सनातनः। पर्यायस्य व्ययोत्पादावेकैकसमये सदा ॥ लयसर्गस्वरूपोऽहं, परब्रह्मसनातनः । विश्वज्ञेयलयोत्पादा, मम ज्ञाने प्रतिक्षणम् ॥ ज्ञेयरूपादिभिन्नं तत्सर्व विश्वं सनातनम् । जडात्मव्यक्तितो भिन्नं, भिन्नाभिन्नविवक्षया ॥ सर्वशुद्धात्मरूपोऽहं, सत्तातोऽस्मि निरञ्जनः । व्यक्ताऽव्यक्तस्वरूपोऽहं, सच्चिदानन्दरूपवान् ॥ स्व-स्वरूपात्सरूपोऽहमरूपी पररूपतः । असंख्यातप्रदेशोऽहं, निराकारो महान्विभुः ॥ सर्वतोऽनन्तशक्त्याऽहं, षड्धा कारकचक्रवान् । लक्ष्याऽलक्ष्यस्वरूपोऽहमस्तिनास्तिस्वरूपवान् ॥ साकारोऽहं निराकारो, ज्ञानायत्तं जगन्मयि । जीवाऽजीवपदार्थानां, ज्ञापको रक्षकोऽस्म्यहम् ॥ नित्यात्मानः सदा ज्ञेया, मत्समा ज्ञानधारकाः। मत्तः सर्गो लयश्चैव, ज्ञेयानामौपचारिकः॥ दृश्यादृश्यमिदं ज्ञेयं, सर्व विश्वमनादितः। ज्ञान व्यापको विश्वे, जीवाऽजीवशिरोमणिः ।। .. ४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org