________________
-
-
१६४
[ पञ्चदशाध्याये मदाज्ञापालकत्वाच्च, खण्डनत्वात्तथा भुवि । जीवानां शर्मदुःखानां, दाताहमुपचारतः ॥ २३ सुखस्य हेतवो बोध्याः, पुण्यकर्मप्रवृत्तयः। दुःखस्य हेतवो बोध्याः, पापकर्मप्रवृत्तयः ॥ आसक्ला आश्रवो बोध्यो, निरासक्त्या च संवरः। शुभाऽशुभफलेष्वेव, निरासक्तिर्महात्मनाम् ॥ सर्वकर्त्तव्यकार्याणां, शुभाऽशुभफलेष्वपि । निरासक्तिर्महाधर्मो, मदाज्ञावर्तिनां भवेत् ॥ स्वाऽधिकारेण सर्वेषां, सर्वधर्म्यप्रवृत्तिषु । निरासक्तिः परा भक्तिः, सर्वकर्मविनाशिका ॥ सुखे हर्ष न कुर्वन्ति, दुःखेषु न विषादताम् । येषां चित्ते सदा साम्यं, वीतरागास्तपस्विनः ॥ -- २८ यादृशे तादृशे प्राप्ते, स्वाधिकारे प्रवृत्तिमान् । वैदेहभावयातः स, जीवन्मुक्तो गृही व्रती ॥ शुद्धात्मपरमानन्दभोगिनः पूर्णयोगिनः । मुक्ताः सर्वत्र निःसंगाः, प्रारब्धवेदिनोऽपि ते ॥ शुभपुद्गलपर्यायो, द्रव्यपुण्यं शुभं सदा । भावपुण्यं शुभोत्साहादिकमन्यक्रियात्मकम् द्रव्यभावात्मकं पापं, विचाराचारबन्धतः । शुभप्रीत्यादयः पुण्यहेतवश्चेतरेऽन्यथा ॥ मत्तः पुण्यानि जायन्ते, भक्तानां भक्तिभावतः। मुक्तिश्च सर्वभक्तानां, दुष्टानां नरकं तथा ॥ रागद्वेषवियुक्तत्वाद्वीतरागो विभुबली । साक्षिभावेन विश्वेषां, द्रष्टाऽहं सर्वतत्त्वविद् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org