________________
ज्ञानयोगः ]
कर्मरूपप्रभोः शक्तिरचिन्त्या शर्मदुःखदा । आत्मनः शक्तितो भिन्ना, कर्मणः शक्तिरष्टधा ॥ आत्मरूपप्रभोर्माया, प्रकृतिरुच्यते मया । कर्मादीनाञ्च कर्तृत्वमात्मनो द्रव्यभावतः ॥ उपादानेन कर्त्तृत्वमात्मनामात्मसु ध्रुवम् । कर्मणाञ्चैव कर्तृत्वमुपादानेन कर्मसु ॥ कर्तृत्वं न च कर्माणि, शुद्धब्रह्मणि वस्तुत: । शुद्धब्रह्मस्वरूपे मे, कर्त्तृत्वमुपचारतः ॥ कर्तृत्वं नैव कर्माणि, जीवानां च सृजाम्यहम् । अज्ञानेनावृता लोकाः कुर्वन्त्यारोपतां मयि ॥ उपादानेन कर्तृत्वमात्मन आत्मनि ध्रुवम् । पर्यायाणां गुणानाञ्च, प्राकटथं परमात्मता ॥ नैमित्तिकं परापेक्षं, कर्त्तृत्वमौपचारिकम् । विश्वस्य मयि बोद्धव्यं, गीतं सर्वत्र भक्तिषु ॥ आत्मना क्रियते कर्म, स्वात्मना चैव भुज्यते । आन्तरदृष्टितः स्वात्ना, कर्त्ता भोक्ता च कर्मणाम् ॥ पुण्यं शुभाश्रवः प्रोक्तं, पापञ्चाशुभ आश्रवः । संवरस्तु द्वयो रोधो, निर्जरा कर्मशाटनम् ॥ कृत्स्नकर्मक्षयो मोक्षो, ज्ञानादिशक्तिभाजनम् ! मत्पदं मोक्षरूपच, शुद्धब्रह्म निगद्यते ॥ पुण्यभोगाश्रयः स्वर्गो, नरकं दुःखभाजनम् । सिद्धिः स्वर्गश्च मद्भक्त्या, पापाच्च नरकालयः ॥ जीवा यान्ति यथाकर्म, तथा स्थानं शुभाशुभम् । तत्र निमित्तमात्रोsहं, धर्माऽधर्मप्रदर्शनात् ॥
Jain Education International
,
For Private & Personal Use Only
१६३
११
१२
१३
१४
१५
१६
१७
१८.
१९.
२०
२१
२२
www.jainelibrary.org