SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ पञ्चदशाऽध्याये ज्ञानयोगः धर्मयोगं निराम्याथ, सूरयो गौतमादयः । पप्रच्छुः श्रीमहावीरं, ज्ञानयोगबुभुत्सवः ॥ श्री वीरः प्रोचि वाञ्ज्ञानयोगं मोहविनाशकम् । यं प्राप्य कृतकृत्याः स्युर्मनुष्याः सिद्धिगामिनः ॥ जीवाऽजीवादितत्त्वानि, नव सप्त च वस्तुतः । आत्मरूप ः पुरुषोऽस्ति, प्रकृतिश्च जहात्मिका ॥ अरूपी पुरुषो ज्ञेयः, प्रकृतिश्च द्वयात्मिका । अनादिकालसंबन्धो, द्वयोरस्ति स्वभावतः ॥ शुद्धात्मानो महादेवाः, सिद्धा बुद्धा निरञ्जनाः । अष्टकर्मवियोगान्ते, जन्माऽतीता महेश्वराः ॥ प्रकृतिकर्ममायानां पर्यायेणैकता मता । आत्मानः कर्मकर्त्तारस्तथा कर्मविनाशकाः ॥ ईश्वरा अन्तरात्मानः, सात्त्विक कर्मसंयुताः । कर्मातीताः सदा बोध्याः, परमात्मानः शिवङ्कराः ॥ आत्माऽस्ति कर्मणां कर्त्ता, भोक्ता च व्यवहारतः । वस्तुतः प्रकृतिः कर्त्री, भोक्त्री च शक्तिरूपिणी ॥ कर्त्ता भोक्ता च नैवात्मा, निश्चयनयतः कदा | कर्मप्रभोश्च कर्तुत्वं, साक्षित्वमात्मनस्तथा ॥ पर्याया आत्मनो बोध्या, देवादिसर्वरूपिणः । कर्मतो देहपर्याया, उत्पद्यन्ते शुभाशुभाः ॥ Jain Education International For Private & Personal Use Only ४ ५ ሪ १० www.jainelibrary.org
SR No.001703
Book TitleJain Mahavira Gita
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherShrimad Buddhisagar Sahitya Prakashan Granthamala Ahmedabad
Publication Year
Total Pages308
LanguageSanskrit
ClassificationBook_Devnagari, Principle, & Sermon
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy